________________
आगम
“स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [९], उद्देशक [-], मूलं [६९१]
(०३)
ॐॐॐ -43+5+%
9
प्रत सूत्रांक
[६९१]
कदा भगवतो मेण्डिकमामनगरे विहरत: पित्तज्वरो दाहबहुलो बभूव लोहितवर्चश्च प्रावर्त्तत, चातुर्वर्ण्य च व्याकरोति म यदुत गोशालकस्य तपस्तेजसा दग्धशरीरोऽन्तः षण्मासस्य कालं करिष्यतीति, तत्र च सिंहनामा मुनिरातापना-18 ऽवसान एवममन्यत-मम धर्माचार्यस्य भगवतो महावीरस्य ज्वररोगो रुजति, ततो हा वदिष्यन्त्यन्यतीथिकाः यथा छदास्थ एवं महावीरो गोशालकतेजोऽपहतः कालगत इति एवम्भूतभावनाजनितमानसमहादुःखखेदितशरीरो मालुककच्छाभिधानं विजनं बनमनुप्रविश्य कुहुकुहेत्येवं महाध्वनिना प्रारोदीत्, भगवांश्च स्थविरेस्तमाकार्योक्तवान्-हे सिंह! यत्वया व्यकल्पि न तद्भावि, यत इतोऽहं देशोनानि षोडश वर्षाणि केवलिपर्यायं पूरयिष्यामि, ततो गच्छ त्वं नगरमध्ये, तत्र रेवत्यभिधानया गृहपतिपत्न्या मदर्थं द्वे कूष्माण्डफलशरीरे उपस्कृते, न च ताभ्यां प्रयोजनं, तथाऽन्यदस्ति तद्गृहे परिवासितं मार्जाराभिधानस्य वायोनिवृत्तिकारकं कुक्कुटमासकं बीजपूरककटाहमित्यर्थः, तदाहर, तेन नः प्रयोजनमित्येवमुक्तोऽसौ तथैव कृतवान्, रेवती च सबहुमानं कृतार्थमात्मानं मन्यमाना यथायाचितं तत्याने प्रक्षिप्तवती, | तेनाप्यानीय तद्भगवतो हस्ते विसृष्टं, भगवतापि वीतरागतयैवोदरकोठे निक्षिप्त, ततस्तत्क्षणमेव क्षीणो रोगो जाता, जातानन्दो यतिवर्गो मुदितो निखिलो देवादिलोक इति । अनन्तरं ये तीर्थकरा भविष्यन्ति ते प्रकृताध्ययनानुपातेनोक्ता अधुना तु ये जीवाः सेत्स्यन्ति तथैव तानाह
एस णं अळो! कण्हे वासुदेवे १ रामे बलदेवे २ उदये पेढालपुत्ते ३ पुट्टिले ४ सतते गाहावती ५ दारुते नितंठे ६
5
दीप
अनुक्रम [८७०]
wwjanatarary.om
मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [03], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
~ 916~