________________
आगम
(०३)
प्रत
सूत्रांक
[६६७]
दीप
अनुक्रम
[८०६]
श्रीस्थानाङ्गसूत्र
वृत्तिः
॥ ४४६ ॥
“स्थान” - अंगसूत्र - ३ ( मूलं + वृत्ति:) मूलं [ ६६७ ]
स्थान [९],
उद्देशक [-1,
कर्म्मणां देशतः क्षपणा, बन्धः-आश्रवैरात्तस्य कर्म्मण आत्मना संयोगः, मोक्ष:- कृत्स्नकर्मक्षयादात्मनः स्वात्मन्यवस्थानमिति, ननु जीवाजीवव्यतिरिक्ताः पुण्यादयो न सन्ति, तथाऽयुज्यमानत्वात्, तथाहि - पुण्यपापे कर्म्मणी बन्धोऽपि तदात्मक एवं कर्म्म च पुलपरिणामः पुद्गलाश्चाजीवा इति, आश्रवस्तु मिथ्यादर्शनादिरूपः परिणामो जीवस्य स चात्मानं पुद्गलांश्च विरहय्य कोऽन्यः ?, संवरोऽप्याश्रवनिरोधलक्षणो देशसर्व्वभेद आत्मनः परिणामो निवृत्तिरूपो, निर्जरा तु कर्म्मपरिशाटो जीवः कर्म्मणां यत् पार्थक्यमापादयति स्वशक्त्या, मोक्षोऽप्यात्मा समस्तकर्म्मविरहित इति, तस्माज्जीवाजीवौ सद्भावपदार्थाविति वक्तव्यं, अत एवोक्तमिहैव "जदस्थि च णं लोए तं सव्वं दुप्पडोयारं, तंजहा जीवचेअ अजीवच्चअ” अत्रोच्यते, सत्यमेतत्, किन्तु यावेव जीवाजीवपदार्थों सामान्येनोक्तौ तावेवेह विशेषतो नवधोक्ती, सामान्यविशेषात्मकत्वाद्वस्तुनः, तथेह मोक्षमार्गे शिष्यः प्रवर्त्तनीयो न सङ्ग्रहाभिधानमात्रमेव कर्त्तव्यं, स च यदैवमाख्यायते यदुताश्रवो बन्धो बन्धद्वारायाते च पुण्यपापे मुख्यानि तत्त्वानि संसारकारणानि संवरनिर्जरे च मोक्षस्य तदा | संसारकारणत्यागेनेतरत्र प्रवर्त्तते नान्यथेत्यतः पद्बोपन्यासः मुख्यसाध्यख्यापनार्थे च मोक्षस्येति । अत्र च पदार्थनवके प्रथमो जीवपदार्थोऽतस्तद्भेदगत्यागत्यवगाहनासंसारनिर्वर्तन। गोत्पत्तिकारणप्रतिपादनाय 'नवविहे 'त्यादिसूत्रप |ञ्चदशकमाह, सुगमं चेदं नवरं अवगाहन्ते यस्यां सा अवगाहना-शरीरमिति, 'वत्तिंसु व'त्ति संसरणं निर्वर्त्तितवन्तः - अनुभूतवन्तः, एवमन्यदपि, 'अच्चासणघाए'त्ति अत्यन्तं सततमासनं - उपवेशनं यस्य सोऽत्यासनस्तद्भावस्तत्ता तया, अशोंविकारादयो हि रोगा एतया उत्पद्यन्त इति अथवा अतिमात्रमशनमत्यशनं तदेवात्यशनता, दीर्घत्वं च प्राकृतत्वात्
For Furts at Use Only
९ स्थाना०
उद्देशः र जिनान्तरं
तवानि सर्वजीवाः
रोग हेतवः
सू० ६६६
६६७
~895~
॥ ४४६ ॥
मुनि दीपरत्नसागरेण संकलित ..........आगमसूत्र [०३], अंग सूत्र [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः अत्र मूल-संपादने एका स्खलना जाता, स्थान- ९ समीपे यत् उद्देश: ३ लिखितं तत् मुद्रण-दोष:, नवमे स्थाने न किंचित् उद्देशकः वर्तते
ibrary org