________________
आगम
(०३)
“स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [४], उद्देशक [४], मूलं [३४४] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत सूत्रांक [३४४]
तथा, चतुर्थः शून्यः । अन्तर्दुष्टं वणं लूतादिदोषतः, न वही रागाद्यभावेन सौम्यत्वात् ४, पुरुषस्तु अन्तर्दुष्टः शठतया संवृताकारत्वान्न बहिरित्येकः, अभ्यस्तु कारणेनोपदर्शितवाक्पारुप्यादित्वाबहिरेवेति । पुरुषाधिकारात् तद्भेदप्रतिपादनाय षट्सूत्री कण्ठया च, किन्तु अतिशयेन प्रशस्यः श्रेयानेकः प्रशस्यभावः सद्बोधत्वात् पुनः श्रेयान प्रशस्तानुष्ठानत्वात् साधुवदित्येक १ अन्यस्तु श्रेयांस्तथैव अतिशयेन पापः पापीयान् , स चाविरतत्वेन दुरनुष्ठायित्वादिति २ अभ्यस्तु | पापीयान् भावतो मिथ्यात्वादिभिरुपहतत्वात् कारणवशात् सदनुष्ठायित्वाच श्रेयान् उदायिनृपमारकवत् ३ चतुर्थः स एव कृतपाप इति ४, अथवा श्रेयान् गृहस्थत्वे निष्क्रमणकाले वा पुनः श्रेयान् प्रव्रज्यायां विहारकाले वेत्येवमन्येऽपि । श्रेयानेको भावतो द्रव्यतस्तु श्रेयान् प्रशस्यतर इत्येवंवुद्धिजनकत्वेन सदृशकः-अन्येन श्रेयसा तुल्यो न तु सर्वथा श्रेयानेवेत्येकः १, अन्यस्तु भावतः श्रेयानपि द्रव्यतः पापीयानित्येवंबुद्धिजनकत्वेन सदृशकः-अन्येन पापीयसा समानो न तु पापीयानेवेति द्वितीयः२, भावतः पापीयानप्यन्यः संवृताकारतया श्रेयानित्येवंबुद्धिजनकतया सदृशकोऽन्येन श्रेयसेति तृतीयः, चतुर्थः सुज्ञानः । श्रेयानेकः सद्त्तत्वात् श्रेयानित्येवमात्मानं मन्यते यथावद्वोधात् लोकेन धा मन्यते विशदसदनुष्ठानाद्, इह च मन्निजइत्ति वक्तव्ये प्राकृतत्वेन मन्न ईत्युक्तम् , श्रेयानप्यन्य आत्मन्यरुचिपरायणत्वात् | पापीयानित्यात्मानं मन्यते, स एव वा पूर्वोपलब्धतदोपेण जनेन मन्यते दृढप्रहारिवत् १ पापीयानष्यपरो मिथ्यात्वाधुपहततया श्रेयानित्यात्मानं मन्यते, कुतीर्थिकवत्, तद्भक्केन वेति २, पापीयानन्योऽविरतिकत्वात् पापीयानित्यास्मानं मन्यते, सद्बोधत्वाव, असंयतो वा मन्यते, संयतलोकेनेति ३, श्रेयानेको भावतो द्रव्यतस्तु किश्चित्सदनुष्ठायि
दीप
अनुक्रम [३६६]
For P
OW
~ 536~