________________
आगम
(०३)
“स्थान" - अंगसूत्र-३ (मूलं+वृत्ति
स्थान [४], उद्देशक [३], मूलं [३३८] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत सूत्रांक [३३८]
वालाभस्य क्रयणे हेतोः सतो दृष्टान्ततयोपन्यस्तत्वाद्धेतूपन्यासोपनयज्ञाततेति, इह च किश्चिद्विशेषेणैवंविधा ज्ञातभेदाः | सम्भवन्त्यन्येऽपि किन्तु ते न विवक्षिताः अन्तर्भावो वा कथश्चित् गुरुभिर्विवक्षितो न च तं वयं सम्यग् जानीम इति । अथ ज्ञातानंतरं ज्ञातवद्धेतोः साध्यसिद्ध्यङ्गत्वात् तद्भेदान हेऊ इत्यादिना सूत्रत्रयेणाह-व्यक्तं चैतत्, नवरं हिनोतिगमयति ज्ञेयमिति हेतुः-अन्यथाऽनुपपत्तिलक्षणः, उक्तञ्च-“अन्यथाऽनुपपन्नत्वं, हेतोर्लक्षणमीरितम् । तदप्रसिद्धिसन्देहविपर्यासैस्तदाभता ॥१॥" इति, प्रागुक्तश्च हेतुः पर्यनुयुक्तस्योत्तररूपमुपपत्तिमात्रमयं तु साध्यं प्रत्यन्वयव्यतिरेकवान् | तथाविघदृष्टान्तस्मृततझाव इति, स चैकलक्षणोऽपि किश्चिद्विशेषाचतुर्की, तत्र 'जावए'त्ति यापयति-वादिनः कालया-| पनां करोति, यथा काचिदसती एकैकरूपकेण एकैकमुष्ट्रलिण्डं दातव्यमिति दत्तशिक्षस्य पत्युस्तद्विक्रयार्थेमुज्जयनीप्रेषणोपायेन बिटसेवायां कालयापनां कृतवतीति यापका, उक्तञ्च-"उब्भामिया य महिला जावगहेउम्मि उट्टलिंडाई॥" इति, इह वृद्धैयाख्यातम्-प्रतिवादिनं ज्ञात्वा तथा तथा विशेषणबहुलो हेतुः कर्तव्यो यथा कालयापना भवति, ततो-18 ऽसौ नावगच्छति प्रकृतमिति, स चेदृशः सम्भाव्यते-सचेतना वायवः अपरप्रेरणे सति तियगनियतत्वाभ्यां गतिम-16 वात् गोशरीरवदिति, अयं हि हेतुर्विशेषणबहुलतया परस्य दुरधिगमत्वात् वादिनः कालयापनां करोति, स्वरूपमस्या-12 नवबुध्यमानो हि परो न झगित्येवानकान्तिकत्वादिदूषणोद्भावनाय प्रवर्तितुं शक्नोति, अतो भवत्यस्माद् वादिनः काल-18 दायापनेति, अथवा योऽप्रतीतव्याप्तिकतया व्याप्तिसाधकप्रमाणान्तरसव्यपेक्षत्वान्न झगित्येव साध्यप्रतीतिं करोति अपि तु
कालक्षेपेणेत्यसौ साध्यप्रतीतिं प्रति कालयापनाकारित्वाद्यापकः, यथा क्षणिकं बस्त्विति पो बीजस्य सत्वादिति हेतुः,
दीप अनुक्रम [३६०]
~524~