________________
आगम
(०३)
प्रत
सूत्रांक
[२३५ ]
दीप
अनुक्रम [२४९]
मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०३], अंग सूत्र [०३]
“स्थान” - अंगसूत्र-३ ( मूलं + वृत्तिः) स्थान [४], उद्देशक [१],
Educatin internation
अंतक्रियायाः वर्णनं
द्रव्यतो गेहाद्भावतः संसाराभिनन्दिदेहिनामावासभूतादविवेक गेहान्निष्क्रम्येति गम्यते अनगारितां अगारी-गृही असंयतः तत्प्रतिषेधादनगारी संयतस्तद्भावस्तत्ता तां साधुतामित्यर्थः, प्रत्रजितः - प्रगतः प्राप्त इत्यर्थः, अथवा विभक्तिपरिणामादनगारितया - निर्ग्रन्थतया 'प्रव्रजितः' प्रव्रज्यां प्रतिपन्नः किंभूत इत्याह- 'संजमबहुले त्ति संयमेन - पृथिव्यादिसंरक्षणलक्षणेन बहुल:- प्रचुरो यः स तथा संयमो वा बहुलो यस्य स तथा एवं संवरबहुलोऽपि, नवरमाश्रवनिरोधः संवरः, अथवा इन्द्रियकपायनिग्रहादिभेदः एवं च संयमबहुलग्रहणं प्राणातिपातविरतेः प्राधान्यख्यापनार्थं, यतः-- "एकं चिय एत्थ वयं निहिडं जिणवरेहिं सम्येहिं । पाणाइवायविरमणमवसेसा तस्स रक्खट्टा ॥ १ ॥ इति, एतच्च द्वितयमपि रागाद्युपशमयुक्तचित्तवृत्तेर्भवति, अत आह-समाधिबहुलः, समाधिस्तु प्रशमवाहिता ज्ञानादिर्वा, समाधिः पुनर्निःस्नेहस्यैव भवतीत्याह- 'लूहे' रूक्षः शरीरे मनसि च द्रव्यभावस्नेहवर्जितत्वेन परुषः, लूपयति वा कर्म्मम लमपनयतीति षः, कथमसावेवं संवृत्त इत्याह-यतः "तीरडी" तीरं पारं भवार्णवस्थार्थयत इत्येवंशीलस्तीरार्थी तीरस्थायी वा तीरस्थितिरिति वा प्राकृतत्वात् तीरद्वेत्ति, अत एव 'उवहाणवंति उपधीयते उपष्टभ्यते श्रुतमनेनेति उपधानं श्रुतविषयस्तपउपचार इत्यर्थः तद्वान्, अत एव - 'दुक्खक्खवेत्ति दुःखम् - असुखं तत्कारणत्वाद्वा कर्म तत् क्षपयतीति दुःखक्षपः, कर्मक्षपणं च तपोहेतुकमित्यत आह-'तवस्सी'ति तपोऽभ्यन्तरं कम्र्मेन्धनदहनज्वलन कल्प मनवरतशुभध्यानलक्षणमस्ति यस्य स तपस्वी, 'तस्स णं'ति यश्चैवंविधस्तस्य णं वाक्यालङ्कारे नो तथाप्रकारम् अत्यन्तघोरं
१ अत्र - एकमेवात्र मतं सर्वेजिनवरैर्निर्दिष्टं । प्राणादिपात निरमणमवशेषाणि तस्थ रक्षायें ॥ १ ॥
For Pasta Use Only
मूलं [२३५] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः
~364~