________________
आगम
(०३)
प्रत
सूत्रांक
[१६०
-१६१]
दीप अनुक्रम
[१६८
-१७४]
“स्थान” - अंगसूत्र-३ ( मूलं + वृत्तिः)
उद्देशक [२],
मूलं [ १६१]
[०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः
स्थान [३],
मुनि दीपरत्नसागरेण संकलित आगमसूत्र
दर्शनीयाः, एवञ्च यद्भवति तदाह – 'एक्के इत्यादि, एकैकस्मिन् विषये षडालापका भणितव्या भवन्तीति तत्र शब्दे दशिंता एव, रूपादिषु पुनरेवं रूपाणि दृष्ट्वा सुमना दुर्मना अनुभयं १ एवं पश्यामीति २ एवं द्रक्ष्यामीति ३ एवं अदृष्ट्वा ४ न पश्यामीति ५ न द्रक्ष्यामीति ६ पटू, एवं गन्धान् घ्रात्वा ६ रसानास्वाद्य ६ स्पर्शान् स्पृष्ट्वेति ६ । 'तव ठाणा यत्ति यत्सग्रहगाथायामुक्तं तद् भावयन्नाह - 'तओ ठाणा' इत्यादि, त्रीणि स्थानानि निःशीलस्य - सामान्येन शुभस्वभाववर्जितस्य विशेषतः पुनः निर्व्रतस्य प्राणातिपाताद्यनिवृत्तस्य निर्गुणस्योत्तरगुणापेक्षया निर्म्मर्यादस्य लोककुलाद्यपेक्षया निष्प्रत्याख्यानपौषधोपवासस्य पौरुष्यादिनियमपर्वोपवासरहितस्य गर्हितानि - जुगुप्सितानि भवन्ति, तद्यथा - 'अस्सि ति विभक्तिपरिणामादयं लोकः- इदं जन्म गर्हितो भवति, पापप्रवृत्त्या विद्वज्जन जुगुप्सितत्वात्, तथा उपपातः - अकामनिर्जरादिजनितः किल्विषिकादिदेवभवो नारकभवो वा, 'उपपातो देवनारकाणा' मिति (नारकदेवानामुपपातः तत्त्वा० अ० २ सू० ३५ ) वचनात् स गर्हितो भवति किल्बिपिकाभियोग्यादिरूपतयेति, आजातिः - तस्माच्यु तस्योद्वृत्तस्य वा कुमानुषत्वतिर्यक्त्वरूपा गर्हिता, कुमानुषादित्वादेवेति । उक्तविपर्ययमाह-'तओ' इत्यादि, निगद सिद्धम् ॥ एतानि च गर्हितप्रशस्तस्थानानि संसारिणामेव भवन्तीति संसारि जीवनिरूपणायाह
तिविधा संसारसमानगा जीवा पं० [सं० इत्थी पुरिसा नपुंसगा, तिविहा सव्वजीवा पं० तं० सम्मद्दिट्ठी मिच्छादिडी सम्मामिच्छदिट्टी य, अहवा तिविहा सञ्चजीवा पं० [सं० पज्जत्तगा अपनत्तगा णोपजत्तगाणोऽपन्नसगा । एवंसम्मद्दिङ्किपरित्तापज्जत्तग सुदुमसन्निभविया व ( सू० १६२ )
Ja Eucation International
For Parts Only
~266~