________________
आगम
(०३)
प्रत
सूत्रांक
[१३५]
दीप
अनुक्रम
[१४३]
श्रीस्थाना
ङ्गसूत्रवृत्तिः
॥ ११९ ॥
“स्थान” - अंगसूत्र-३ ( मूलं + वृत्ति:)
उद्देशक [१],
मूलं [१३५]
[०३], अंग सूत्र [०३ ] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः
स्थान [३], मुनि दीपरत्नसागरेण संकलित आगमसूत्र
इति १ । अथ भर्त्तुः दुष्प्रतिकार्यतामाह — 'केह महचे' त्ति कश्चित् कोऽपि महती ऐश्वर्यलक्षणाऽर्चा -ज्वाला पूजा वा यस्य | अथवा महांश्चासावर्थपतितया अर्घ्यश्च पूज्य इति महाच्चों महाच्यों वा माहत्यं महत्त्वं तद्योगान्माहत्यो वा ईश्वर इ- ४ त्यर्थः, दरिद्रम्-अनीश्वरं कश्चन पुरुषमतिदुःस्थं 'समुत्कर्षयेत्' धनदानादिनोत्कृष्टं कुर्यात्, 'ततः' समुत्कर्षणानन्तरं स दरिद्रः समुत्कृष्टो धनादिभिः 'समाणे'त्ति सन् 'पच्छ'त्ति पश्चात्काले 'पुरं च णं'ति पूर्वकाले च समुत्कर्षणकाल एवेत्यर्थः अथवा पश्चाद्भर्त्तुरसमक्षं पुरश्च भर्तुः समक्षं च विपुलया 'भोगसमित्या' भोगसमुदयेन 'समन्वागतो' युक्तो यः स तथा स चापि 'विहरेत्' वर्त्तत, ततोऽनन्तरं 'स'महाच भर्त्ता 'अन्यदा' लाभान्तरायोदये 'कदाचिद्' तथा| विधायामसह्यायामापदि दरिद्रीभूतः सन् 'तस्य' पूर्वसमुत्कृष्टस्य 'अन्तिके' पार्श्वे 'हवं'ति अनन्यत्राणतया शीघ्रं त्राणस्य तत्र शक्यत्वाभिसन्धेः आगच्छेत् तदा स पूर्वावस्थया दरिद्रः पूर्वोपकारिणे भर्त्रे 'सव्वस्तं'ति सर्व्वं च तत् स्वं च- द्रव्यं चेति सर्वस्वं तदपि, आस्तामल्पमिति, 'दलयमाणे त्ति ददत् न कृतप्रत्युपकारो भवेदिति शेषः, अतस्तेनापि - सर्वस्वदानेन सर्वस्वदाय केनापि वा दुष्प्रतिकारमेवेति २ । अथ धर्माचार्यदुष्प्रतिकार्यतामाह-- 'केई' त्यादि, 'आयरिय'ति पापकर्मभ्य आराद्यातमित्यार्यमत एव धार्मिकमत एव सुवचनं श्रुत्वा श्रोत्रेण 'निशम्य' मनसाऽवधार्य अन्यतरेषु देवलोकेष्वन्यतरदेवानां मध्ये इत्यर्थो देवत्वेनोत्पन्न इति, दुर्लभा भिक्षा यस्मिन् देशे स दुर्भिक्षस्तस्मात् 'संहरेत्' नयेत, कान्तारम् अरण्यं निर्गतः कान्तारान्निष्कान्तारस्तन्निष्क्रमितारं वा, दीर्घः कालो विद्यते यस्य स दीर्घकालिकस्तेन रोग:कालसहः कुष्ठादिरातङ्कः-कृच्छ्रजीवितकारी सद्योघातीत्यर्थः शूलादिरनयोर्द्वन्द्वंकर रोगातङ्कं तेनेति, धर्मस्थापनेन तु
Educaty Internation
For Penal Use Only
~ 241 ~
र स्थानकाध्ययने
उद्देशः १
सू० १३५
॥ ११९ ॥