SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ आगम (०३) प्रत [८] दीप अनुक्रम [८] “स्थान” - अंगसूत्र-३ ( मूलं + वृत्तिः) स्थान [२], उद्देशक [३], मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०३], अंग सूत्र [०३ ] मूलं [८८] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः सर्वा महानद्यः पर्वताः कूटानि च वेदिकादियुक्तानीति, हरिकान्ता तु महापद्महदादेवोत्तरतोरणेन निर्गत्य पश्चोत्तराणि षोडश शतानि सातिरेकाणि उत्तराभिमुखी पर्वतेन गत्या सातिरेकयोजनशतद्वयप्रमाणेन प्रपातेन हरिकान्ताकुण्डे तथैव प्रपतति, मकरमुखजिह्निकाप्रमाणं पूर्वोक्तद्विगुणं ततः प्रपातकुण्डादुत्तरतोरणेन निर्गत्य हरिवर्षमध्यभागवर्त्तिनं गन्धा| पातिवृत्तवैताढ्यं योजनेनासम्प्राप्ता पश्चिमाभिमुखीभूता षट्पञ्चाशता सरित्सहस्रैः समग्रा समुद्रमभिगच्छति, इयं च हरिकान्ता प्रमाणतो रोहिनदीतो द्विगुणेति । 'एवमित्यादि, एवमिति 'जंबूदीवे' त्याद्यभिलापसूचनार्थः । हरिन्महानदी तिगिंछिदस्य दक्षिणतोरणेन निर्गत्य सप्त योजनसहस्राणि चत्वारि चैकविंशत्यधिकानि योजनशतानि सातिरेकाणि दक्षि णाभिमुखी पर्व्वतेन गत्वा सातिरेक चतुर्योजनशतिकेन प्रपातेन हरिकुण्डे निपत्य पूर्वसमुद्रे प्रपतति शेषं हरिकान्तासमानमिति । शीतोदामहानदी तिगिंछिदस्योत्तरतोरणेन निर्गत्य तावन्त्येव योजनसहस्राणि गिरिणा उत्तराभिमुखी गत्या सातिरेक चतुर्योजनशतिकेन प्रपातेन शीतोदाकुण्डे निपततीति, जिह्निका मकरमुखस्य चत्वारि योजनानि आयामेन पञ्चाशद्विष्कम्भेण योजनं बाहल्येन कुण्डादुत्तरतोरणेन निर्गत्य देवकुरून् विभजन्ती चित्रविचित्रकूट पर्वतों निषधदादश्च पञ्च हृदान् द्विधा कुर्वती चतुरशीत्या नदीसहस्रैरापूर्यमाणा भद्रशालयनमध्येन मेरुं योजनद्वयेनाप्राप्ता प्रत्यसुखी आवर्त्तमाना अधो विद्युत्प्रभं वक्षारपर्वतं दारयित्वा मेरोरपरतोऽपर विदेहमध्यभागेन एकैकस्माद् विजयादष्टाविं शत्या अष्टाविंशत्या नदीसहस्त्रैरापूर्यमाणा अधो जयन्तद्वारस्य अपरसमुद्रं प्रविशतीति शीतोदा हि प्रवाहे पञ्चाशयोज नविष्कम्भा योजनोद्वेधा ततो मात्रया परिवर्द्धमाना मुखे पञ्चयोजनशतविष्कम्भा दशयोजनोद्वेधेति । 'जंत्र' इत्यादि, Education Internation For Palata Use Only ~ 150 ~
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy