________________
आगम
(०३)
प्रत
सूत्रांक
[७७६]
दीप
अनुक्रम [१०००]
श्रीस्थाना
ङ्गसूत्र
वृत्तिः
॥ ५२२ ॥
Jus Educatio
“स्थान” - अंगसूत्र-३ ( मूलं + वृत्तिः) मूलं [ ७७६ ]
स्थान [१०],
उद्देशक [-],
१० स्थाना. उद्देशः ३
श्रेणयः ग्रैवेयकं ते
जोलेश्याः
अयमकोपस्यापि वीतरागस्य प्रभावो यत्यरतेजो न प्रभवति, अत्रार्थे दृष्टान्तमाह — 'जहा वा' यथैव गोशालकस्य-भगवच्छिष्याभासस्य मङ्गल्यभिधानमपुत्रस्य मश्च चित्रफलकप्रधानो भिक्षुकविशेषः, 'तवेतेए'त्ति तपोजनितत्वात्तपः किं तत् ? - तेजस्तेजोलेश्येति, तत्र किलैकदा भगवान् महावीरः श्रावस्त्यां विहरति स्म गोशालकश्च तत्र च गौतमो + मूलादीनि | गोचरगतो बहुजनशब्दमश्रौषीत् - यथा इह श्रावस्त्यां द्वौ जिनौ सर्वज्ञौ - महावीरो गोशालकश्चेति श्रुखा भगवदन्तिकमागत्य गोशालकोत्थानं पृष्टवान्, भगवांश्चोवाच- यथा अयं शरवणग्रामे गोबहुलब्राह्मणगोशालायां जातो मललिनान्नो मङ्गस्य सुभद्राभिधानतद्भार्यायाश्च पुत्रः षड् वर्षाणि यावच्छास्थेन मया सार्द्धं विहृतोऽस्मत्त एव बहुश्रुती भूत इति नायं जिनो न च सर्वज्ञः, इदं च भगवद्वचनमनुश्रुत्य बहुजनो नगर्याः त्रिकचतुष्कादिषु परस्परस्य कथयामास-गोशालको मलिपुत्रो न जिनो न सर्वज्ञः, इदं च ठोकवचनमनुश्रुत्य गोशालकः कुपितः आनन्दाभिधानं च भगवदन्तेवासिनं गोचरगतमपश्यत् तमवादीच्च भो आनन्द ! एहि तावदेकमौपम्यं निशामय, यथा केचन वणिजो 2 ऽर्थार्थिनो विविधपण्यभृतशकटा देशान्तरं गच्छन्तो महाटवीं प्रविष्टाः पिपासितास्तत्र जलं गवेषयन्तश्चत्वारि वल्मीकशिखराणि शालवृक्षस्यान्तरद्राक्षुः क्षिप्रं चैकं विचिक्षिपुस्ततोऽतिविपुलम मलजलमवापुः, तत्पयो यावत्पिपासमापीतवन्तः पयःपात्राणि च पयसा परिपूरयामासुः, अपायसम्भाविना वृद्धेन निवार्यमाणा अप्यतिलोभाद् द्वितीयतृतीयशिखरे विभिदुः, तयोः क्रमेण सुवर्ण च रलानि च समासादयामासुः पुनस्तथैव चतुर्थ भिन्दानाः घोरविषमतिकायमअनपुञ्जतेजसमतिचञ्चलजिह्वायुगलमना कलितकोपप्रसर महीश्वरं सङ्घट्टितवन्तः ततोऽसौ कोपाद्वल्मीकशिखरमारुह्य
सू० ७७३७६७
For Full
॥ परर ॥
~ 1047~
tacibrary org
मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः अत्र मूल-संपादने एका स्खलना जाता, स्थान- समीपे यत् उद्देश: ३ लिखितं तत् मुद्रण-दोष:, दशमे स्थाने न किंचित् उद्देशकः वर्तते