________________
आगम
“स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [१०], उद्देशक [-], मूलं [७५६]
(०३)
प्रत सूत्रांक [७५४-७५६]
देव्या अतिमुक्तको नाम पुत्रः पवार्षिको गौतमं गोचरगतं दृष्ट्वा एवमवादीत्-के यूयं किं वा अटथ!, ततो गीतमोऽवादीत्-श्रमणा वयं भिक्षार्थं च पर्यटामः, तर्हि भदन्तागच्छत तुभ्यं भिक्षां दापयामीति भणित्वा अङ्गल्या भगवन्तं गृहीत्वा स्वगृहमानैषीत्, ततः श्रीदेवी हृष्टा भगवन्तं प्रतिलम्भयामास, अतिमुक्तका पुनरवोचत्-यूयं क सथ, भगवानुवाच-भद्र! मम धर्माचार्याः श्रीवर्द्धमानस्वामिन उद्याने वसंति तत्र वयं परिवसामा, भदन्त ! आगच्छाम्यह भवद्भिः सार्धं भगवतो महावीरस्य पादान् वन्दितुं', गौतमोऽवादीत्-यथासुखं देवानां प्रिय!, ततो गौतमेन सहागत्यातिमुक्तकः कुमारो भगवन्तं वन्दते, स धर्म श्रुत्वा प्रतिबुद्धो गृहमागत्य पितरावब्रवीत् यथा संसारान्निविष्णोऽहं अनजामीत्यनुजानीतं मां युवां, तावूचतुः-बाल! त्वं किं जानासि ?, ततोऽतिमुक्ककोऽवादीत्-हे अम्बतात! यदेवाह जानामि तदेव न जानामि, यदेव न जानामि तदेव जानामि, ततस्ती तमवादिष्टां-कथमेतत् ?, सोऽब्रवीत्-अम्बतात। जानाम्यहं यदुत-जातेनावश्यं मर्त्तव्यं, न जानामि तु कदा वा कस्मिन् वा कथं वा फियश्चिराद्वा, तथा न जानामि | कैः कर्मभिर्निरयादिषु जीवा उत्पद्यन्ते एतत्पुनर्जानामि यथा स्वयंकृतैः कर्मभिरिति, तदेवं मातापितरौ प्रतिबोध्य प्रवत्राज तपः कृत्वा च सिद्ध इति, इह स्वयमनुत्तरोपपातिकेषु दशमाध्ययनतयोक्तस्तदपर एवायं भविष्यतीति, 'दस आहिय'त्ति दशाध्ययनान्याख्यातानीत्यर्थः ॥ आचारदशानामध्ययनविभागमाह-आयारे'त्यादि, असमाधिः-ज्ञानादिभाषप्रतिषेधोऽप्रशस्तो भाव इत्यर्थः तस्य स्थानानि-पदानि असमाधिस्थानानि-बैरासेवितैरात्मपरोभयानामिह परब चोभयत्र वा असमाधिरुत्पद्यते तानीति भावः, तानि च विंशतिः दुतचारित्वादीनि तत वावगम्यानीति, सत्यतिपादकम-13
गाथा:
दीप अनुक्रम [९६६-९७६]
aindiaray.om
मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०३], अंग सूत्र - [०३] “स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
~ 1024 ~