________________
आगम
(०२)
सूत्रकृताङ्गे
२ श्रुतस्क न्धे शीलाकीयावृत्तिः
॥४१६ ॥
“सूत्रकृत्” अंगसूत्र-२ (मूलं+निर्युक्तिः+वृत्तिः)
श्रुतस्कंध [२.], अध्ययन [७], उद्देशक [-], मूलं [७७], निर्युक्ति: [ २०५] मुनि दीपरत्नसागरेण संकलित आगमसूत्र -[०२], अंग सूत्र -[०२] “सुत्रकृत्” मूलं एवं शिलांकाचार्य कृत् वृत्तिः
-
समुत्पद्यन्ते तेषां च त्रसानां सर्वेषां स्थावर कायसमुत्पन्नानां स्थानमेतद् घात्यं वर्तते तेन श्रावकेण स्थावरकायवधनिवृत्तेरकर - शाद्, अतः सर्वस्य त्रसकायस्य स्थावरका यत्वेनोत्पत्तेर्निर्विषयं तस्य श्रावकस्य त्रसवध निवृत्तिरूपं प्रत्याख्यानं प्राप्नोति, तद्यथाकेनचिद्रतमेवंभूतं गृहीतं यथा-मया नगरनिवासी न इन्तव्यः, तच्चोइसितं नगरम्, अतो निर्विषयं तत्तस्य प्रत्याख्यानम्, एवमत्रापि सर्वेषां त्रसानामभावान्निर्विषयत्वमिति । एवमुदकेनाभिहिते सति तदभ्युपगमेनैव गौतमस्वामी दूषयितुमाह सद्वाचं सवाद वा तमुदकं पेढालपुत्रं गौतमस्वाम्येवमवादीत्, तद्यथा-नो खल्वायुष्मन्नुदक! अस्माकमित्येतन्मगधदेशे आगोपालाङ्गनादिप्रसिद्धं संस्कृतमेवोश्चार्यते तदिहापि तथैवोच्चारितमिति, तदेवमसाकं संबन्धिना वक्तव्येन नैतदशोभनं किं तर्हि ?, युष्माकमेवानुप्रवादेनैतदशोभनं इदमुक्तं भवति- अस्मद्वक्तव्येनास्य चोद्यस्यानुत्थानमेव, तथाहि नैतद्भूतं न च भवति नापि कदाचिद्भविष्यति यदुत - सर्वेऽपि स्थावरा निर्लेपतया त्रसत्वं प्रतिपद्यन्ते, स्थावराणामानन्त्यात्रसानां चासंख्येयलेन तदाधारत्वानुपपत्तेरित्यभिप्रायः, तथा असा अपि सर्वेऽपि न स्थावरस्वं प्रतिपन्ना न प्रतिपद्यन्ते नापि प्रतिपत्स्यन्ते इदमुक्तं भवतियद्यपि विवक्षितकालवर्तिनसाः कालपर्यायेण स्थावरकायत्वेन यास्यन्ति तथापि अपरापरत्रसोत्पच्या त्रसजात्यनुच्छेदान्त्र कदाचिदपि त्रसकायशून्यः संसारो भवतीति, तदेवमसन्मतेन चोद्यानुत्थानमेव, अभ्युपगम्य च भवदीयं पक्षं युष्मद्भ्युपगमेनैव परिहियते—तदेव पराभिप्रायेण परिहरति-अस्त्यसौ पर्यायः - स चायं भवदभिप्रायेण यदा सर्वेऽपि स्थावरास्त्रसत्वं प्रतिपद्यन्ते यस्मिन्पर्याये - अवस्थाविशेषे श्रमणोपासकस्य कृतन्त्रसप्राणातिपातनिवृचेः सतः प्रसत्वेन च भवदभ्युपगमेन सर्वप्राणिनामुत्पत्तेः तैश्व सर्वप्राणिभित्रसत्वेच भूतैः - उत्पन्नैः करणभूतैस्तेषु वा विषयभूतेषु दण्डो निक्षिप्तः - परित्यक्तः, इदमुक्तं भवति यदा
Ja Education International
For Parts Only
~836~
७ नालन्दीयाध्य
श्रावकप्रत्याख्यानस्य सविषयता
।।४१६ ॥