________________
आगम
(०२)
“सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [२.], अध्ययन [६], उद्देशक [-], मूलं [गाथा-४८], नियुक्ति: [२००] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०२], अंग सूत्र-[०२] “सुत्रकृत्” मूलं एवं शिलांकाचार्य-कृत् वृत्तिः
सर्वात्म ना तत्र विद्यते, अस्माकं च द्रव्यपर्यायोभयवादिना कारणे कार्य द्रव्यात्मतयां विद्यते न पर्यायात्मकतया, अपिच-अस्माकमत्पादव्ययधीव्ययुक्तमेव सदित्युच्यते, भवतां तु धीच्ययुक्तमेव सदिति, यावप्पा विर्भावतिरोभावी भवतोच्येते तावपि । नोत्पादविनाशावन्तरेण भवितुमुत्सहेते, तदेवमैहिकामुष्मि कचिन्तायामावयोन कथश्चित्साम्यं। किंच-सर्वव्यापिसे सत्यात्मनामविकारिखे चात्माद्वैते चाभ्युपगम्यमाने नारकतियेझ्नरामरभेदेन चालकुमारसुभगदुर्भगाढ्यदरिद्रादिभेदेन या न मीयेरन्न परिच्छिोरन् , नापि स्वकर्मचोदिता नानागतिषु संसरन्ति, सर्वव्यापिखादेकखाद्वा, तथा न बामणा न क्षत्रिया न वैश्या न प्रेष्या-न शूद्रा नापि कीटपक्षिसरीसृपाश्च भवेयुः, तथा नराश्च सर्वेऽपि देवलोकाचेत्येवं नानागतिभेदेन न मियेरन् , अतो न सर्वव्यापी आत्मा, नाप्यात्माद्वैतवादो ज्यायान् , यतः प्रत्येकं सुखदुःखानुभवः समुपलभ्यते, तथा शरीरखपर्यन्तमात्र एवात्मा, तत्रैव तद्गुणविज्ञानोपलब्धेरिति स्थितम् , तदेवं व्यवस्थिते युष्मदागमो यथार्थाभिधायी न भवति, असर्वेशप्रणीतखाद्, असर्वज्ञप्रणीतसं चैकान्तपक्षसमाश्रयणादिति ।। ४९ ॥ एवमसर्वज्ञस्य मार्गोद्भावने दोपमाविर्भावयन्नाहलोयं अयाणित्तिह केवलेणं, कहंति जे धम्ममजाणमाणा । णासंति अप्पाण परं च णट्ठा, संसार घोरंमि अणोरपारे॥४९॥ लोयं बिजाणंतिह केवलेणं, पुन्नेण नाणेण समाहिजुत्ता । धम्म समत्तं च कहति जे उ, तारंति अप्पाण परं च तिन्ना ॥५०॥ 'लोक' चतुर्दशरज्ज्वात्मकं चराचरं वा लोकमज्ञाखा केवलेन दिव्यज्ञानावभासेन 'इह' असिन् जगति ये तीथिका 'अजानाना' अविद्वांसो 'धर्म' दुर्गतिगमनमार्गस्वार्गलाभूतं 'कथयन्ति' प्रतिपादयन्ति ते खतो नष्टा अपरानपि नाशयन्ति, क?
ESCOPE CREERecene
~809~