________________
आगम
(०२)
“सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [२.], अध्ययन [६], उद्देशक [-], मूलं [गाथा-६], नियुक्ति: [२००] मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र-[०२], अंग सूत्र-०२] “सुत्रकृत्” मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत
सूत्रांक
||६||
दीप अनुक्रम [७४३]
'पूर्व पूर्वस्मिन्काले यन्मौनव्रतिकत्वं या चैकचर्या तच्छद्मस्थत्वाद्घातिकर्मचतुष्टयक्षयार्थ, साम्प्रतं यन्महाजनपरिवृतस्य धर्मदेशना || विधानं तत्प्रारबद्धभवोपवाहिकर्मचतुष्टयक्षपणोद्यतस्य विशेषतस्तीर्थकरनाम्नो वेदनार्थ अपरासां चोर्गोत्रशुभापुर्नामादीनां शुभप्रक| तीनामिति । यदिवा पूर्व साम्प्रतमनागते च काले रागद्वेषरहितत्वादेकत्वभावनानतिक्रमणाचकत्वमेवानुपचरितं भगवानशेषजनहितं धर्म कथयन् प्रतिसंदधाति, न तस्य पूर्वोत्तरयोरवस्थयोराशंसारहितत्वा दोस्ति, अतो यदुच्यते भवता-पूर्वोत्तरयोरवस्थयोरसाङ्गत्यं तत् प्लवत इति ॥३॥ यादेतद्-धर्मदेशनया प्राणिनां कश्चिदुपकारो भवत्युत नेति ?, भवतीत्याह-'समिच लोय' मित्यादि, सम्यग| यथावस्थित 'लोक' पइद्रव्यात्मकं 'मत्वा' अवगम्य केवलालोकेन परिच्छिद्य त्रस्यन्तीति प्रसा:-त्रसनामकर्मोदया द्वीन्द्रियादयः,
तथा तिष्ठन्तीति स्थावरा:-स्थावरनामकर्मोदयात्स्थावराः पृथिव्यादयस्तेषामुभयेषामपि जन्तूनां 'क्षेम' शान्तिः रक्षा तत्करणशील: | क्षेमकरः श्राम्यतीति श्रमणो द्वादशप्रकारतपोनिष्टतदेहः, तथा मा हणत्ति प्रवृत्तिर्यस्थासौ माहनो ब्राह्मणो या स एवंभूतो 'निर्म
मो' रागद्वेषरहितः प्राणिहितार्थ न लाभपूजाख्यात्यर्थ धर्ममाचक्षाणोऽपि प्राम्वत् छद्मस्थावस्थायां मौनव्रतिक इव बाक्संयत एव, उत्पन्नदिव्यज्ञानत्वादापागुणदोषविवेकज्ञतया भाषणेनेव गुणावाप्तेः, अनुत्पन्नदिव्यज्ञानस्य तु मौनप्रतिकत्येनेति, तथा देवासुरनरतिर्यक्सहस्रमध्येऽपि व्यवस्थितः पङ्काधारपङ्कजवत्तद्दोषच्यासङ्गाभावान्ममत्व विरहादाशंसादोपविकलवादेकान्तमेवासी 'सार-12 यति' प्रख्याति नयति साधयतीतियावत् । ननु चैकाकिपरिकरोपेतावस्थयोरस्ति विशेषः, प्रत्यक्षेणैवोपलभ्यमानत्वात् , सत्यम् , अस्ति विशेषो बाधतो न त्वान्तरतोऽपि, दर्शयति-'तथा' प्रारबदचर्चा-लेश्या शुक्लध्यानाख्या यस्य स तथाः , यदिवा अर्चा-शरीरं 18 तच्च प्राग्वद्यस्य स तथाः, तथाहि-असावशोकाद्यष्टप्रातिहार्योपेतोऽपि नोत्सेकं याति, नापि शरीर संस्कारायत्तं विदधाति, स हि
Sesesesesekseeestaesesesese
~783~