SearchBrowseAboutContactDonate
Page Preview
Page 750
Loading...
Download File
Download File
Page Text
________________ आगम (०२) प्रत सूत्रांक ||3|| दीप अनुक्रम [७०७] “सूत्रकृत्” - अंगसूत्र- २ ( मूलं + निर्युक्तिः + वृत्तिः) श्रुतस्कंध [२.], अध्ययन [ ५ ], उद्देशक [-] मूलं [गाथा - ३], निर्युक्तिः [१८३] मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र -[०२], अंग सूत्र -[०२] “सुत्रकृत्” मूलं एवं शिलांकाचार्य कृत् वृत्तिः | तथा चोक्तम् — “घटमौलि सुवर्णार्थी, नाशोत्पादस्थितिष्वयम् । शोकप्रमोदमाध्यस्थ्यं, जनो याति सहेतुकम् ।। १ ।। इत्यादि । तदेवं नित्यानित्यपक्षयोर्व्यवहारो न विद्यते, तथाऽनयोरेवानाचारं विजानीयादिति स्थितम् ॥ ३ ॥ तथाऽन्यमप्यनाचारं प्रतिपेद्धुकाम आह समुच्छिहंत सत्धारो, सबै पाणा अणेलिसा । मंठिगा वा भविस्संति, सासयंति व णो वए ॥ ४ ॥ एहिं दोहिं ठाणेहिं, ववहारो ण विज्जइ । एएहिं दोहिं ठाणेहिं, अणायारं तु जाणए ॥ ५ ॥ ( सूत्र ) सम्यक् - निरवशेषतया 'उच्छेत्स्यन्ति' उच्छेदं यास्यन्ति-क्षयं प्राप्स्यन्ति सामस्त्येनोत् प्राबल्येन सेत्स्यन्ति वा सिद्धिं याखन्ति, के ते? - शास्तारः - तीर्थकृतः सर्वज्ञास्तच्छासनप्रतिपन्ना वा 'सर्व' निरवशेषाः सिद्धिगमनयोग्या भय्याः, ततवोच्छिन्नभव्यं जगत्स्यादिति, शुष्कतकभिमानग्रहगृहीता युक्तिं चाभिदधति - जीवसद्भावे सत्यप्यपूर्वोत्पादाभावादभव्यस्य च सिद्धिगमनासंभवा| त्कालस्य चानन्त्यादनारतं सिद्धिगमनसंभवेन तद्व्ययोपपत्तेरपूर्वायाभावाद्भव्योच्छेद इत्येवं नो वदेत् तथा सर्वेऽपि 'प्राणिनो' | जन्तवः 'अनीदृशा' विसदृशाः सदा परस्परविलक्षणा एव, न कथञ्चित्तेषां सादृश्यमस्तीत्येवमध्ये कान्तेन नो वदेत् यदिवासर्वेषां भन्यानां सिद्धिसद्भावेऽवशिष्टाः संसारे 'अनीदृशा' अभव्या एव भवेयुरित्येवं च नो वदेत्, युक्ति चोत्तरत्र वक्ष्यति । तथा कर्मात्मको ग्रन्थो येषां विद्यते ते ग्रन्थिकाः सर्वेऽपि प्राणिनः कर्मग्रन्थोपेता एवं भविष्यन्तीत्येवमपि नो वदेत् इदमुक्तं भवति--सर्वेऽपि प्राणिनः सेत्स्वन्त्येव कर्मावृता वा सर्वे भविष्यन्तीत्येवमेकमपि पक्षमेकान्तिकं नो वदेत् । यदिवा — 'ग्रन्थिका' इति ग्रन्थिकसच्चा भविष्यन्तीति, ग्रन्थिभेदं कर्तुमसमर्था भविष्यन्तीत्येवं च नो वदेत्, तथा 'शाश्वता' इति शास्तारः | 'सदा' सर्वकालं स्थायिनस्तीर्थकरा भविष्यन्ति 'न समुच्छेस्यन्ति' नोच्छेदं यास्यन्तीत्येवं नो वदेदिति ॥४॥ तदेवं दर्शनाचारवा Ja Eucation Internation For Parts Only ~749~
SR No.004102
Book TitleAagam 02 SOOTRAKUT Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages860
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size176 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy