________________
आगम
(०२)
“सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [१], उद्देशक [२], मूलं [गाथा-११], नियुक्ति: [३५] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०२], अंग सूत्र-[०२] "सुत्रकृत्” मूलं एवं शिलांकाचार्य-कृत् वृत्तिः
प्रत सूत्रांक ||११||
धम्मपण्णवणा जा सा, तं तु संकति मूढगा। आरंभाई न संकंति, अविअत्ता अकोविआ ॥११॥ धर्मस्य-क्षान्त्यादिदशलक्षणोपेतस्स या प्रज्ञापना--प्ररूपणा, 'तां तु' इति तामेव 'शङ्कन्ते' असद्धर्मग्ररूपणेयमित्येवमध्यवसन्ति, ये पुनः पापोपादानभूताः समारम्भास्तानाशङ्कन्ते, किमिति, यतः 'अव्यक्ता' मुग्धाः-सहजसद्विवेकविकलाः, तथा | 'अकोविदा' अपण्डिताः-सच्छाखावबोधरहिता इति ॥ ११॥ ते च अज्ञानावृता यन्त्राप्नुवन्ति तद्दर्शनायाह
सवप्पगं विउक्कस्स, सवं णूमं विहूणिआ। अप्पत्तिअं अकम्मसे, एयमह मिगे चुए ॥ १२ ॥ सर्वत्राप्यात्मा यथासौ सर्वात्मको-लोभस्तं विधूयेति संबन्धः, तथा विविध उत्कर्षो गर्यो व्युत्कों—मान इत्यर्थः, तथा 'म ति माया तां विधूय, तथा 'अप्पत्तिय'ति क्रोधं विधूय, कषायविधूननेन च मोहनीयविधूननमावेदितं भवति, तदपगमा-12 चाशेषकर्माभावः प्रतिपादितो भवतीत्याह-'अकमीश' इति न विद्यते कर्माशोऽस्पेत्यकर्माश:, स चाकर्माशो विशिष्टज्ञानाद्भ-18
वति नाज्ञानादित्येव दर्शयति-'एनमर्थ' कर्माभावलक्षणं मृग इव मृगः-अज्ञानी 'चुए'ति त्यजेत् , विभक्तिपरिणामेन का 18 असादेवभूतादर्थात् च्यवेत्-भ्रश्येदिति ॥ १२ ।। भूयोऽप्यज्ञानवादिना दोषाभिधित्सयाऽऽह
जे एयं नाभिजाणंति, मिच्छदिट्ठी अणारिया । मिगा वा पासबद्धा ते, धायमेसंतिणंतसो॥ १३॥ 'ये' अज्ञानपक्षं समाश्रिता 'एन' कर्मक्षपणोपाय न जानन्ति' आत्मीयासहग्रहप्रस्ता मिध्यादृष्टयोऽनास्तेि मृगा इव पाश-1||
दीप अनुक्रम
[३८]
Imandana
~71~