________________
आगम
(०२)
“सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [२.], अध्ययन [२], उद्देशक [-], मूलं [४०], नियुक्ति: [१६८] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०२], अंग सूत्र-०२] “सुत्रकृत्” मूलं एवं शिलांकाचार्य-कृत् वृत्तिः
S
प्रत सूत्रांक
[४०]
दीप अनुक्रम [६७२]
णियवाईणं वेणइयवाइणं, तेवि परिनिवाणमासु, तेऽवि मोक्खमाहंसु तेऽवि लवंति, सावगा! तेऽवि लवंति सावइत्तारो ॥ सूत्रम् ४०॥ 'एवमेव' संक्षेपेण 'सम्यगनुगम्यमाना' व्याख्यायमानाः सम्यगनुगृह्यमाणाः 'अनयोरेव' धर्माधर्मस्थानयोरनुपतन्ति । किमिति , यतो यदुपशान्तस्थानं तद्धर्मपक्षस्थानमनुपशान्तस्थानमधर्मपक्षस्थानमिति । तत्र च यदधर्मपाक्षिकं प्रथम स्थानं तत्रामूनि त्रीणि त्रिपश्यधिकानि प्रावादुकशतान्यन्तर्भवन्तीत्येवमाख्यातं पूर्वाचायरिति । एतानि च सामान्येन दर्शयितुमाह'जहे त्यादि, तद्यथेत्युपदर्शनार्थः क्रियां-ज्ञानादिरहितामेकामेव स्वर्गापवर्गसाधनलेन वदितुं शीलं येषां ते क्रियावादिनः, ते च दीक्षात एव मोक्षं बदन्तीत्येवमादयो द्रष्टव्या इति, तेषां च बहवो भेदाः, तथा अक्रियां परलोकसाधनखेन वदितुं शील येषां ते तथा तेषामिति, अज्ञानमेव श्रेयः इत्येवं वदितुं शीलं येषां ते भवन्त्यज्ञानवादिनस्तेषां, तथा विनय एव परलोकसाधने प्रधानं कारणं येषां ते तथा तेषामिति । अत्र च सर्वत्र षष्ठीबहुवचनेनेदमाह, तद्यथा-क्रियावादिनामशीत्युत्तरं शतं अक्रियावादिनां चतुरशीतिरज्ञानिकानां सप्तपष्टिीनयिकानां द्वात्रिंशदिति । तत्र च सर्वेऽप्येते मौलास्तच्छिष्याच प्रवदनशीलवात्प्रावा- 10 दुकाः, तेषां च भेदसंख्यापरिज्ञानोपाय आचार एवाभिहित इति नेह प्रतन्यते । ते सर्वेऽप्याहता इव परिनिर्वाणम्-अशेष-8 द्वन्द्वोपरमरूपमवर्णगन्धरसस्पर्शखभावमनुपचरितपरमार्थस्थानं ब्रह्मपदाख्यमवाधात्मक परमानन्दसुखस्वरूपमाहुः-उक्तवन्तः, तथा तेऽपि प्रावादुकाः संसारबन्धनान्मोचनात्मकं मोक्षमाहुः, पूर्वेण निरुपाधिकं कायेंमेव निर्वाणाख्यमुक्तम् , अनेन तु तदेव कारणोपाधिकमित्ययं विशेषः । तत्र येषामप्यात्मा नास्ति ज्ञानसन्ततिवादिनां तेषामपि कर्मसंततेः संसारनिबन्धन ताया विच्छे
200000
~679~