________________
आगम
“सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [१], उद्देशक [२], मूलं [गाथा-५], नियुक्ति: [३५]
(०२)
मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०२], अंग सूत्र-[०२] “सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत
सूत्राक
||५||
फलाद्युद्भवो न सर्वदेति, यच्चोक्तं 'कालस्सैकरूपताजगद्वैचित्र्यं न घटत' इति, तदसान् प्रति न दूपणं, यतोऽस्माभिर्न काल एवैकः कर्तृतेनाभ्युपगम्यते अपि तु कर्मापि, ततो जगद्वैचित्र्यमित्यदोषः । तथेश्वरोऽपि कर्ता, आत्मैव हि तत्र तत्रोत्पत्तिद्वारेण सकलज-18 गद्वथापनादीश्वरः, तस्य सुखदुःखोत्पत्तिकर्तृवं सर्ववादिनामविगानेन सिद्धमेव, यच्चान मूर्तामूर्तादिकं दूषणमुपन्यस्तं तदेवंभूते-19 श्वरसमाश्रयणे दूरोत्सादितमेवेति । स्वभावस्थापि कथश्चित्कर्टखमेव, तथाहि-आत्मन उपयोगलक्षणसमसंख्येयप्रदेशखं पुद्गलानां |च मतलं धर्माधर्मास्तिकाययोर्गतिस्थित्युषष्टम्भकारिखममूर्तलं चेत्येवमादि स्वभावापादितं, यदपि चात्रात्मव्यतिरेकाच्यतिरेकरूपं ।
दुषणमुपन्यस्तं तददूषणमेव, यतः स्वभाव आत्मनोऽव्यतिरिक्ता, आत्मनोऽपि च कर्तृखमभ्युपगतमेतदपि खभावापादितमेवेति । ॥ तथा कर्मापि का भवत्येव, तद्धिजीवप्रदेशैः सहान्योन्यानुवेधरूपतया व्यवस्थितं कथञ्चिच्चात्मनोऽभिन्न, तशाचात्मा नारक| तिर्यश्मनुष्यामरभवेषु पर्यटन् सुखदुःखादिकमनुभवतीति । तदेवं नियत्यनियत्योः कर्तृले युक्त्युपपन्ने सति नियतेरेव कर्तृखमभ्युप
गच्छन्तो निर्वृद्धिका भवन्तीत्यवसेयम् ॥ ४॥ तदेवं युक्त्या नियतिवादं दूषयित्वा तद्वादिनामपायदर्शनायाह-'एव'मिति | पूर्वाभ्युपगमसंसूचकः, सर्वस्मिन्नपि वस्तुनि नियतानियते सत्येके नियतिमेवावश्यंभाव्येव कालेश्वरादेनिराकरणेन निर्हेतुकतया । | नियतिवादमाश्रिताः, तुरवधारणे, त एव नान्ये, किंविशिष्टाः पुनस्ते इति दर्शयति-युक्तिकदम्बकादहि स्तिष्ठन्तीति पार्श्वस्थाः
परलोकक्रियापार्थस्था वा, नियतिपक्षसमाश्रयणात्परलोकक्रियावैयर्थ्य, यदिवा-पाश इव पाशा-कर्मबन्धनं, तच्चेह युक्तिविकल| नियतिवादग्ररूपणं तत्र स्थिताः पाशस्थाः, अन्येऽप्येकान्तवादिनः कालेश्वरादिकारणिकाः पार्श्वस्थाः पाशस्था वा द्रष्टव्या
दीप अनुक्रम [३२]
Cheeseaeeesereoes
IANumtaram.org
~67~