________________
आगम
(०२)
प्रत
सूत्रांक
[१३]
दीप
अनुक्रम
[६४५]
सूत्रकृताङ्गे
२ धुतस्क न्धे शीलाङ्कीयावृतिः
।।२९४ ॥
Education intam
“सूत्रकृत्” अंगसूत्र-२ (मूलं+निर्युक्तिः+वृत्तिः)
श्रुतस्कंध [२.], अध्ययन [ १ ], उद्देशक [-], मूलं [१३], निर्युक्ति: [१५७]
-
यिनो विदितवेद्या भवन्तीति ॥ साम्प्रतमन्येन प्रकारेण वैराग्योत्पत्तिकारणमाह-स 'मेघावी' सश्रुतिक 'एतद्' वक्ष्यमाणं जा| नीयात्, तद्यथा बाह्यतरमेतत् यज्ज्ञातिसंबन्धनम् इदमेवान्यदुपनीततरम् - आसन्नतरं, शरीरावयवानां भिन्नातिभ्य आसन्नत रखात्, तद्यथा-हस्तौ ममाशोकपालसदृशौ तथा भुजौ करिकराकारों पर पुरंजयौ प्रणयिजनमनोरथपूरको शत्रुशतजीवितान्तकरौ यथा मम न तथाऽन्यस्य कस्यापीत्येवं पादावपि पद्मगर्भसुकुमारावित्यादि सुगमं यावत्स्पर्शाः स्पर्शनेन्द्रियं 'ममाति' ममीकरोति, याटको न तारगम्यस्येति भावः, एतच हस्तपादादिकं स्पर्शनेन्द्रियपर्यवसानं शरीरावयवसंबन्धिवेन विवक्षितं यत्किमपि वयसः परिणामात् कालकृतावस्थाविशेषात् 'परिजूरह'त्ति परिजीर्यते जीर्णतां याति प्रतिक्षणं विशरास्तां याति तस्मिंश्व प्रतिस मयं विशीर्यति शरीरे प्रतिसमयमसौ प्राणी एतस्माद्भश्यति, तद्यथा-- आयुपः पूर्वनिबद्धात्समयादिहान्याऽपचीयते, आवीची मरणेन प्रतिसमयं मरणाभ्युपगमात्, तथा बलादपचीयते, तथाहि -यौवनावस्थायाध्यवमाने शरीर के प्रतिक्षणं शिथिलीभवत्सु संधिबन्धनेषु बलादवश्यं भ्रश्यते, तथा वर्णाचचच्छायातोऽपचीयते, अत्र च सनत्कुमारदृष्टान्तो वाच्यः, तथा जीर्यति शरीरे श्रोत्रादीनीन्द्रियाणि न सम्यक् स्वविषयं परिच्छेत्तुमलं, तथा चोक्तम्- "वाल्य वृद्धिर्वयो मेधा सक्चक्षुः शुक्रविक्रमाः । दशकेषु निवर्तन्ते, मनः सर्वेन्द्रियाणि च ॥ १ ॥ तथा च विशिष्टवयोहान्या 'सुसंघितः' सुबद्धः संधिः - जानुरादिको 'विसंधिर्भवति' विगलितबन्धनो भवतीत्यर्थः तथा चलितरङ्गाकुलं सर्वतः शिराजालवेष्टितमात्मनोऽपि शरीरमिदमुद्वेगकृद्भवति किंपुनरन्येषां ?, तथा | चोक्तम्- "वलिसंततमस्थिशेषितं, शिथिलस्नायुवृतं कडेवरम् । स्वयमेव पुमान् जुगुप्सते, किमु कान्ताः कमनीयविग्रहाः १ ॥ १२ ॥ " | तथा कृष्णाः केशा वयःपरिणामजलप्रक्षालिता धवलतां प्रतिपद्यन्ते, तदेवं वयःपरिणामापादितसम्मतिरेतद्भावयेत्, तद्यथा---
For Fans Use Only
मुनि दीपरत्नसागरेण संकलित ...... आगमसूत्र [०२], अंग सूत्र [०२] “सुत्रकृत्” मूलं एवं शिलांकाचार्य कृत् वृत्तिः
~ 592~
a;
१ पुण्डरीकाध्य०
भिक्षुःपञ्च
मः वैराग्य
स्वरूपं
॥२९४॥