________________
आगम
(०२)
प्रत
सूत्रांक
[१३]
दीप
अनुक्रम [६४५]
सूत्रकृता २ श्रुतस्क | न्धे शीलाड्रीयावृत्तिः
॥२९३॥
“सूत्रकृत्” अंगसूत्र-२ (मूलं+निर्युक्तिः+वृत्तिः)
श्रुतस्कंध [२.], अध्ययन [ १ ], उद्देशक [-], मूलं [१३], निर्युक्ति: [१५७]
Jus Education intemational
-
जहिष्यामः त्यक्ष्याम इत्येवमध्यवसायिनो भवन्ति । पुनरपरं वैराग्योत्पत्तिकारणमाह- 'से मेहावी' स 'मेधावी' सश्रुतिकः एतज्जानीयात्, तद्यथा - यदेतत्क्षेत्र वास्तुहिरण्यसुवर्णशब्दादिविषयादिकं दुःखपरित्राणाय न भवतीत्युपन्यस्तं तदेतद्राह्यतरं वर्तते, इदमेव चान्यद्वक्ष्यमाणम् 'उपनीततरम्' आसन्नतरं वर्तते, तद्यथा-माता पिता भ्राता भगिनीत्यादयो ज्ञातयः पूर्वापरसंस्तुता एते खलु ममोपकाराय ज्ञातयो भविष्यन्ति, अहमप्येतेषां खानभोजनादिनोपकरिष्यामीत्येवं स मेधावी पूर्वमेवात्मनैवं समभिजानीयादित्यादि, एवं पर्यालोचयत्कल्पितवानिति वा एतदध्यवसायी चासौ स्यादिति दर्शयितुमाह-' इह खलु' इत्यादि 'इह' अस्मिन् भवे मम वर्तमानस्यानिष्टादिविशेषणविशिष्टो दुःखातङ्कः समुत्पद्येत ततोऽसौ तदुःखदुःखितो ज्ञातीनेवमभ्यर्थयेत् तद्यथा- इमं ममान्यतरं दुःखातङ्कमुत्पन्नं परिगृहीत यूयमहमनेनोत्पन्नेन दुःखातङ्केन पीडयिष्यामी (प्य इत्यतोऽमुष्मान्मां परिमोचयत यूयमिति, न चैतत्तेन दुःखितेन लब्धपूर्वं भवति, न हि ते ज्ञातयस्तं दुःखान्मोचयितुमलमिति भावः नाप्यसौ तेषां दुःखमोचनायालमिति दर्शयितुमाह- 'तेसिं वावी' त्यादि, सर्व प्राग्वद्योजनीयं यावदेवमेव नो लब्धपूर्व भवतीति किमित्येवं नोपलब्धपूर्व भवतीत्याह- 'अण्णस्स दुक्खमित्यादि सर्वस्यैव संसारोदर विवरवर्तिनोऽसुमतः स्वकृत कर्मोदयाद्यदुःखमुत्पद्यते तदन्यस्य संबन्धि दुःखमन्यो- मातापित्रादिकः कोऽपि न प्रत्यापित्रति न तस्मात्पुत्रादेर्दुः खेनासनात्यन्तपीडिताः खजना नापि तद्दुःखमात्मनि कर्तुमलं किमित्येवमाशङ्कयाह- 'अण्णेण कड' मित्यादि, 'अन्येन' जन्तुना कपाय वशगेन इन्द्रियानुकूलतया भोगाऽभिलाषिणाऽज्ञानावृतेन मोहोदयवर्तिना यत्कृतं कर्म तदुदयमन्यः प्राणी नो प्रतिसंवेदयति-नानुभवति, तदनुभवने हाकुतागमकृतनाशौ स्यातां न चेमौ युक्तिसंगती, अतो यद्येन कृतं तत्सर्वं स एवानुभवति, तथा चोक्तम्- "परकृतकर्मणि यस्मान
For False
मुनि दीपरत्नसागरेण संकलित...... आगमसूत्र -[ ०२ ], अंग सूत्र- [ ०२] "सुत्रकृत्” मूलं एवं शिलांकाचार्य कृत् वृत्तिः
~ 590~
१ पुण्डरीकाध्य० भिक्षुःपञ्चमः वैराग्यस्वरूपं
॥२९३॥
www.ncbrary.org