________________
आगम
“सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [२.], अध्ययन [१], उद्देशक [-], मूलं [६], नियुक्ति : [१५७]
(०२)
प्रत
सुत्रांक
[६]
IN मया च श्रुतं तदुध्यतेत्यादिकं, किं तद्भगवताऽऽख्यातमित्याह-'इह' प्रवचने सूत्रकृद्वितीयश्रुतस्कन्धे वा खलुशब्दो चाक्या
लङ्कारे पौण्डरीकाभिधानमध्ययनं पौण्डरीकेण-सितशतपत्रेणात्रोपमा भविष्यतीतिकृता, अतोऽस्याध्ययनस्य पौण्डरीकमिति नाम [कृतं, तस्य चायमर्थः, णमिति वाक्यालङ्कारे, 'प्रज्ञप्तः' प्ररूपितः, 'सेजह'त्ति तयथार्थः, स च वाक्योपन्यासार्थः, नामशब्दः सम्भावनायां, सम्भाव्यते पुष्करिणीदृष्टान्तः, पुष्कराणि-पद्यानि तानि विद्यन्ते यस्थामसौ पुष्करिणी 'स्वादु' भवेदेवम्भूता, तद्यथा'बहु' प्रचुरमगाधमुदकं यखां सा बहुदका, तथा बहुः-प्रचुरसीयन्ते-अवबध्यन्ते यसिबसौ सेयः-कर्दमः स यस्यां सा बहुसेया-18 प्रचुरकर्दमा बहुवेतपद्यसद्भावात् खच्छोदकसंभवाच बहुश्वेता वा, तथा 'बहुपुष्कला' बहुसंपूर्णा-प्रचुरोदकभृतेत्यर्थः । तथा लब्धः-प्राप्तः पुष्करिणीशब्दान्वर्थतयाऽर्थो यया सा लब्धार्थी, अथवाऽऽस्थानमास्था-प्रतिष्ठा सा लब्धा यया सा लब्धास्था, तथा पौण्डरीकाणि-श्वेतशतपत्राणि विद्यन्ते यस्यां सा पौण्डरीकिणी, प्रचुरार्थे मबर्थीयोत्पत्तेर्वहुपबेत्यर्थः । तथा प्रसादः-प्रसन्नता | निर्मलजलता सा विद्यते यस्याः सा प्रसादिका प्रासादा वा-देवकुलसनिवेशास्ते विद्यन्ते यस्यां समन्ततः सा प्रासादिका, दर्श
नीया शोभना सत्संनिवेशतो वा द्रष्टच्या दर्शनयोग्या, तथाभिमुख्येन सदाऽवस्थितानि रूपाणि-राजहंसचक्रवाकसारसादीनि | गजमहिपमृगयूथादीनि वा जलान्तर्गतानि करिमकरादीनि वा यस्यां साभिरूपेति, तथा प्रतिरूपाणि-प्रतिबिम्बानि विद्यन्ते | यस्यां सा प्रतिरूपा, एतदुक्तं भवति-वच्छखात्तस्याः सर्वत्र प्रतिबिम्बानि समुपलभ्यन्ते, तदतिशयरूपतया वा लोकेन तत्प्रतिबिम्बानि क्रियन्ते(इति) सा प्रतिरूपति, यदिवा-'पासादीया दरिसणीया अभिरूवा पडिरूवत्ति पर्याया इत्येते चखारोऽप्य१ पुष्कलस्तु पूर्ण श्रेष्ठे इत्यनेकार्थोके, बहुनि प्रत्ययः ।
200908200809200aesesa
दीप अनुक्रम [६३८]
Swlanniorary.org
मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[२], अंग सूत्र-[०२] "सुत्रकृत" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
~547~