________________
आगम
“सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्तिः ) श्रुतस्कंध [१.], अध्ययन [१५], उद्देशक [-], मूलं [२०], नियुक्ति: [१३६]
(०२)
प्रत सूत्रांक ||२०||
coedeseseroesesesesesepsese
विलसितप्रतिमम् ॥१॥” इत्यादि ॥१७॥ अपिच-'इतः अमुष्मात् मनुष्यभवात्सद्धमतो वा विध्वंसमानस्साकृतपुण्यस्य पुनरसिन् संसारे पर्यटतो 'बोधि: सम्यगदर्शनावाप्तिः सुदुर्लभा उित्कृष्टतः अपार्धपुद्गलपरावर्तकालेने यतो भवति, तथा 'दर्लभा' दुरापा तथाभूता-सम्यग्दर्शनप्राप्तियोग्या 'अचों' लेश्याऽन्तःकरणपरिणतिरकृतधर्मणामिति, यदिवाऽचर्चा-मनुष्यशरीरं तदप्य-2 कृतधर्मवीजानामार्यक्षेत्रमुकुलोत्पत्तिसकलेन्द्रियसामय्यादिरूपं दुर्लभं भवति, जन्तूनां ये धर्मरूपमर्थ व्याकुर्वन्ति, ये धर्मप्रतिपत्ति-IN योग्या इत्यर्थः, तेषां तथाभूतार्चा सुदुर्लभा भवतीति ॥ १८॥ किञ्चान्यत्-ये महापुरुषा वीतरागाः करतलामलकवत्सकलजगद्रष्टारः त एवंभूताः परहितैकरताः 'शुद्धम् अवदातं सर्वोपाधिविशुद्ध धर्मम् 'आख्यान्ति' प्रतिपादयन्ति खतः समाचरन्ति च | 'प्रतिपूर्णम्' आयतचारित्रसवात्संपूर्ण यथाख्यातचारित्ररूपं वा 'अनीदृशम् अनन्यसदृशं धर्मम् आख्यान्ति अनुतिष्ठन्ति(च)। तदेवम् 'अनीदृशस्य' अनन्यसदृशस्य ज्ञानचारित्रोपेतस्य यत् स्थानं-सर्वद्वन्द्वोपरमरूपं तद्वाप्तस्य तस्य कुतो जन्मकथा?, जातो मृतो वेत्येवंरूपा कथा खग्नान्तरेऽपि तस्य कर्मवीजाभावात् कुतो विद्यत ? इति, तथोक्तम्-'दग्धे बीजे यथाऽत्यन्तं, प्रादुर्भवति नाङ्करः । कर्मवीजे तथा दग्धे, न रोहति भवाङ्करः ॥१॥" इत्यादि ।।१९।।किंचान्यत्-कर्मवीजाभावात् 'कुतः कसा-18 स्कदाचिदपि 'मेधाविनो' ज्ञानात्मकाः तथा-अपुनरावृत्त्या गतास्तथा गताः पुनरस्मिन् संसारेऽशुचिनिगर्भाधाने समुत्पद्यन्ते ?, न कथञ्चित्कदाचित्कर्मोपादानाभावादुत्पयन्त इत्यर्थः, तथा 'तथागताः' तीर्थकद्गणधरादयो न विद्यते प्रतिज्ञा-निदानबन्धनरूपा येषां तेऽप्रतिज्ञा-अनिदाना निराशंसाः सत्त्वहितकरणोयता अनुत्तरज्ञानसादनुत्तरा 'लोकस्य जन्तुगणस्य सदसदर्थ१ वान्तसम्यक्तधर्मस्यैतावताऽवश्यं सम्पक्लस्य पुनः प्राप्तेः ।
दीप अनुक्रम [६२६]
मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२], अंग सूत्र-[०२] “सुत्रकृत्” मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
~523~