________________
आगम
(०२)
प्रत
सूत्रांक
||१६||
दीप
अनुक्रम
[६२२]
“सूत्रकृत्” अंगसूत्र-२ (मूलं+निर्युक्तिः+वृत्तिः)
श्रुतस्कंध [१.], अध्ययन [१५], उद्देशक [-], मूलं [१६], निर्युक्तिः [१३६]
Education intimational
-
तथा 'वाचा' हितमितभाषी तथा कायेन निरुद्धदुष्प्रणिहितसर्वकायचेष्टो दृष्टिपूतपादचारी सन् परमार्थतश्चक्षुष्मान भवतीति ॥ १३ ॥ अपिच हुरवधारणे, स एव प्राप्तकर्मविवरोनीदृशस्य खेदज्ञो भव्यमनुष्याणां चक्षुः- सदसत्पदार्थाविर्भावनाक्षेत्रभूतो वर्तते, किंभूतोऽसी ?, यः 'काङ्क्षाया:' भोगेच्छाया अन्तको विषयतृष्णायाः पर्यन्तवर्ती । किमन्तवतीति विवक्षितमर्थं साधयति ?, साधयत्येवेत्यमुमर्थ दृष्टान्तेन साधयन्नाह – 'अन्तेन'' पर्यन्तेन 'क्षुरो' नापितोपकरणं तदन्तेन वहति, तथा चक्रमपि रथाङ्गमन्तेनैव मार्गे प्रवर्तते, इदमुक्तं भवति यथा क्षुरादीनां पर्यन्त एवार्थक्रियाकारी एवं विषयकपायात्मक मोहनीयान्त एवाप सदसंसारक्षयकारीति ॥ १४ ॥ अमुमेवार्थमाविर्भावयन्नाह - 'अन्तान' पर्यन्तान् विषयकपाय तृष्णायास्तत्परिकर्मणार्थमुद्यानादीनामाहारस्य वान्तप्रान्तादीनि 'धीराः' महासच्या विषयसुखनिःस्पृहाः 'सेवन्ते' अभ्यस्यन्ति, तेन चान्तप्रान्ताभ्यसनेन 'अन्तकरा:' संसारस्य तत्कारणस्य वा कर्मणः क्षयकारिणो भवन्ति, 'इहे' ति मनुष्यलोके आर्यक्षेत्रे वा, न केवलं तु एव तीर्थङ्करादयः अन्धेऽपीह मानुष्यलोके स्थाने प्राप्ताः सम्यग्दर्शनज्ञानचारित्रात्मकं धर्ममाराध्य 'नराः' मनुष्याः कर्मभूमिगर्भव्युत्क्रान्तिजसंख्येयवर्षायुषः सन्तः सदनुष्ठानसामग्रीमवाप्य 'निष्ठितार्था' उपरतसर्वद्वन्द्वा भवन्ति ||१५|| इदमेवाह – 'निष्ठितार्थाः' कृतकृत्या भवन्ति केचन प्रचुरकर्मतया सत्यामपि सम्यक्त्वादिकायां सामय्यां न तद्भव एव मोक्षमास्कन्दन्ति अपितु सौधर्माद्याः पञ्चो(चानु) चरविमानावसाना देवा भवन्तीति एतल्लोकोत्तरीये प्रवचने श्रुतम्-आगमः एवंभूतः सुधर्मस्वामी वा जम्बूखामिनमुद्दि| श्यैवमाह-यथा मयैतलोकोत्तरीये भगवत्यर्हत्युपलब्धं तद्यथा अवाप्तसम्यक्त्वादिसामग्रीकः सिध्यति वैमानिको वा भवतीति । मनुष्यगतावेवैतन्नान्यत्रेति दर्शयितुमाह- 'सुयं मे' इत्यादि पश्चार्द्ध, तच मया तीर्थकरान्तिके 'श्रुतम्' अवगतं, गणधर : स्वशि
For Fans Only
मुनि दीपरत्नसागरेण संकलित ...... आगमसूत्र [०२], अंग सूत्र [०२] “सुत्रकृत्” मूलं एवं शिलांकाचार्य कृत् वृत्तिः
~ 521 ~