________________
आगम
(०२)
प्रत
सूत्रांक
||१२||
दीप
अनुक्रम [५४६]
सूत्रकृताङ्गं शीळाङ्का
चाय
चियुतं
॥२१८॥
“सूत्रकृत्” अंगसूत्र-२ (मूलं+निर्युक्तिः+वृत्तिः)
श्रुतस्कंध [१.], अध्ययन [१२], उद्देशक [-], मूलं [१२], निर्युक्ति: [ १२१] मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र- [ ०२], अंग सूत्र -[०२ ] “सुत्र कृत्” मूलं एवं शिलांकाचार्य कृत् वृत्तिः
-
१२ सभव
'जानन्ति' परिच्छिन्दन्ति, न च शून्यादिवादेष्वेतद् घटते, तस्मादप्रमाणकमेव तैरभिधीयत इति ॥ ९ ॥ एवं व्याख्याते सति आह परः ननु व्यभिचार्यपि श्रुतमुपलभ्यते, तथाहि चतुर्दशपूर्वविदामपि पदस्थानपतिलमागम उद्घष्यते किं पुनरष्टाङ्ग निमित्त- सरणाध्य० शास्त्रविदाम् १, अत्र चाङ्गवर्जितानां निमित्तशास्त्राणामानुष्टुमेन छन्दसाऽर्धत्रयोदश शतानि सूत्रं तावन्त्येव सहस्राणि वृत्तिस्तावप्रमाणलक्षा परिभाषेति, अङ्गस्य त्वर्धत्रयोदशसहस्राणि सूत्रं, तत्परिमाणलक्षा वृत्तिरपरिमितं वार्तिकमिति, तदेवमष्टाङ्गनिमित्तवेदिनामपि परस्परतः षट्स्थानपतितत्वेन व्यभिचारित्वमत इदमाह– 'केई' त्यादि, छान्दसत्वात्प्राकृतशैल्या वा लिङ्गव्यत्ययः, कानिचिनिमित्तानि 'तथ्यानि' सत्यानि भवन्ति, केषाञ्चित्तु निमित्तानां निमित्तवेदिनां वा बुद्धिवैकल्यात्तथाविवक्षयोपशमाभावेन तत् निमित्तज्ञानं 'विपर्यासं' व्यत्ययमेति, आईतानामपि निमित्तव्यभिचारः समुपलभ्यते, किं पुनस्तीर्थिकानां ?, तदेवं निमित्तशास्त्रस्य व्यभिचारमुपलभ्य 'ते' अक्रियावादिनो 'विद्यासद्भावं विद्यामनधीयानाः सन्तो निमित्तं तथा चान्यथा च भवतीति मत्वा ते २ 'आहंसु विज्ञापलिमोक्खमेव' विद्यायाः - श्रुतस्य व्यभिचारेण तस्य परिमोक्षं-परित्यागमाहुः उक्तवन्तः, यदिवा - क्रियाया अभावाद्विद्यया- ज्ञानेनैव मोक्षं सर्वकर्मच्युतिलक्षणमाहुरिति । कचिचरमपादस्यैवं पाठः, 'जाणामु लोगंसि वयंति मंद'त्ति, विद्यामनधीत्यैव स्वयमेव लोकमस्मिन् वा लोके भावान् स्वयं जानीमः, एवं 'मंदा:' जडा वदन्ति न च निमित्तस्य तथ्यता, तथाहि कस्यचित्कचित्क्षुतेऽपि गच्छतः कार्यसिद्धिदर्शनात्, सच्छकुनसद्भावेऽपि कार्यविघातदर्शनाद्, अतो निमित्त बलेनादेशविधायिनां मृषावाद एव केवलमिति, नैतदस्ति, न हि सम्यगधीतस्य श्रुतस्यार्थे विसंवादोऽस्ति यदपि षट्स्थानपतितखमुद्द्घोष्यते १ बोधात् यद्वा निमित्तशब्देन निमित्तशास्त्राणि तेन तद्विषयक युद्धवैकल्यात् ।
Internationa
For Park Use Only
~440~
॥२१८॥