________________
आगम
(०२)
प्रत
सूत्रांक
||||
दीप
अनुक्रम [५४२]
Education Inte
“सूत्रकृत्” - अंगसूत्र-२ ( मूलं + निर्युक्तिः + वृत्तिः)
श्रुतस्कंध [१.], अध्ययन [१२], उद्देशक [-], मूलं [८], निर्युक्ति: [ १२१] मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र- [ ०२], अंग सूत्र -[०२ ] “सुत्र कृत्” मूलं एवं शिलांकाचार्य कृत् वृत्तिः
|च्छेदः स्यादिति । बौद्धानामप्यत्यन्तक्षणिकलेन वस्तुखाभावः प्रसजति, तथाहि---यदेवार्थक्रियाकारि तदेव परमार्थतः सद्, न च क्षणः क्रमेणार्थक्रियां करोति, क्षणिकलहानेः, नापि यौगपद्येन, [तत्कार्याणां] एकसिभेव क्षणे सर्वकार्यापत्तेः, न चैतदृष्टमिष्टं वा, नच ज्ञानाधारमात्मानं गुणिनमन्तरेण गुणभूतस्य संकलनाप्रत्ययस्य सद्भाव इत्येतच प्रागुक्तप्रायं यच्चोक्तं-- ' दानेन महाभोगा' इत्यादि तदातैरपि कथञ्चिदिष्यत एवेति न चाभ्युपगमा एव बाधायै प्रकल्प्यन्त इति ॥ ६ ॥ पुनरपि शून्यमताविर्भावनायाह-सर्वशून्यवादिनो सक्रियावादिनः सर्वाध्यक्षामादित्योद्गमनादिकामेव क्रियां तावभिरुन्धन्तीति दर्शयति-आदित्यो हि सर्वजनप्रतीतो जगत्प्रदीपकल्पो दिवसादिकालविभागकारी स एव तावन्न विद्यते, कुतस्तस्योद्गमनमस्तमयनं वा ?, यच जाज्वल्यमानं तेजोमण्डलं दृश्यते तद् भ्रन्तमतीनां द्विचन्द्रादिप्रतिभासमृगतृष्णिकाकल्पं वर्तते । तथा न चन्द्रमा वर्धते शुक्लपक्षे, नाप्यपरपक्षे प्रतिदिनमपहीयते, तथा 'न सलिलानि' उदकानि 'स्यन्दन्ते' पर्वतनिर्झरेभ्यो न स्रवन्ति । तथा वाताः सततगतयो न वान्ति । किं बहुनोक्तेन ?, कृत्स्नोऽप्ययं लोको 'वन्ध्यः' अर्थशून्यो 'नियतो' निश्चितः अभावरूप इतियावत्, सर्वमिदं यदुपलभ्यते तन्मायास्वमेन्द्रजालकल्पमिति ॥ ७ ॥ एतत्परिहर्तुकाम आह—यथा अन्धो जात्यन्धः पश्वाद्वा 'हीननेत्रः' अपगतचक्षुः 'रूपाणि' घटपटादीनि 'ज्योतिषापि' प्रदीपादिनापि सह वर्तमानो 'न पश्यति' नोपलभते, एवं तेऽप्यक्रियावादिनः सदपि घटपटादिकं वस्तु तत्क्रियां चास्तिलादिकां परिस्पन्दादिकां वा [क्रियां] न पश्यन्ति । किमिति ?, यतो निरुद्धा आच्छादिता ज्ञानावरणादिना कर्मणा प्रज्ञा-ज्ञानं येषां ते तथा, तथाहि —आगोपालाङ्गनादिप्रतीतः समस्तान्धकारक्षयकारी कमलाकरोद्धा| टनपटीयानादित्योद्गमः प्रत्यहं भवनुपलक्ष्यते, तत्क्रिया च देशादेशान्तरावाध्याऽन्यत्र देवदत्तादौ प्रतीताऽनुमीयते । चन्द्रमाथ
For Parts Only
~437~