________________
आगम
(02)
प्रत
सूत्रांक
||१३||
दीप
अनुक्रम [२३७]
“सूत्रकृत्” - अंगसूत्र - २ (मूलं + निर्युक्तिः + वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [ ३ ], उद्देशक [ ४ ], मूलं [१३], निर्युक्ति: [५०] मुनि दीपरत्नसागरेण संकलित आगमसूत्र -[०२], अंग सूत्र [०२] “सुत्रकृत्” मूलं एवं शिलांकाचार्य-कृत् वृत्तिः
एवमे उपासत्था, मिच्छदिट्टी अणारिया । अज्झोववन्ना कामेहिं, पूयणा इव तरुण ॥ १३ ॥
तुशब्दः पूर्वस्माद्विशेषणार्थः, 'एवमिति वक्ष्यमाणया नीत्या, यदिवा प्राक्तन एव श्लोकोऽत्रापि सम्बन्धनीयः, एवमिति प्राणातिपातादिषु वर्तमाना 'एके' इति बौद्धविशेषा नीलपटादयो नाथवादिकमण्डलप्रविष्टा वा शैवविशेषाः, सदनुष्ठानात् पार्श्वे | तिष्ठन्तीति पार्श्वस्थाः, स्वयूथ्या वा पार्श्वस्यावसन्नकुशीलादयः स्त्रीपरीषहपराजिताः, त एवं 'प्रज्ञापयन्ति' प्ररूपयन्ति अनार्याः, अनार्यकर्मकारित्वात्, तथाहि ते वदन्ति - “प्रियादर्शनमेवास्तु, किमन्यैर्दर्शनान्तरैः १ । प्राप्यते येन निर्वाणं, सरागेणापि | चेतसां ॥१॥ " किमित्येवं तेऽभिदधतीत्याह--'स्त्रीवशं गताः' यतो युवतीनामाज्ञायां वर्तन्ते 'बाला' अज्ञा रागद्वेषोपहतचेतस इति, रागद्वेषजितो जिनास्तेषां शासनम् - आज्ञा कषायमोहोपशमहेतुभूता तत्पराङ्मुखाः संसाराभिष्वङ्गिणो जैनमार्गविद्वेषिणः 'एतद्' वक्ष्यमाणमूचुरिति ||९|| यदूचुस्तदाह-यथेत्युदाहरणोपन्यासार्थः, 'यथा' येन प्रकारेण कश्चित् गण्डी पुरुषो गण्ड समुत्थितं पिटकं वा तज्जातीयकमेव तदाकृतोपशमनार्थं 'परिपीड्य' पूयरुधिरादिकं निर्माल्य मुहूर्तमात्रं सुखितो भवति, न च दोषेणानुषज्यते, एवमत्रापि 'स्त्रीविज्ञापनायां' युवतिप्रार्थनायां रमणीसम्बन्धे गण्डपरिपीडनकल्पे दोषस्तत्र कुतः स्वात् है, न होतावता क्लेदापगममात्रेण दोषो भवेदिति ॥१०॥ स्वाचत्र दोषो यदि काचित्पीडा भवेत्, न चासाविहास्तीति दृष्टान्तेन दर्शयति१ चक्षुषेति प्र० । २ आकोपः वि० प० तदाकृतो० प्र० ।
Eaton Internationa
For Parts Only
~199~