________________
आगम
(०२)
“सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [२], उद्देशक [१], मूलं [१], नियुक्ति: [४०] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०२], अंग सूत्र-[०२] “सुत्रकृत् मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत सूत्रांक
||१||
दिव्यज्ञानेनाष्टापदोपरिव्यवस्थितेन भरताधिपभरतेन चक्रवर्तिनोपहतैरष्टनवतिभिः पुत्रैः पृष्टेन यथा भरतोऽसानाज्ञां कारयत्यतः किमस्माभिर्विधेयमित्यतस्तेषामगारदाहकदृष्टान्तं प्रदर्य न कथश्चिजन्तोभोंगेच्छा निवर्तत इत्यर्थगर्भमिदमध्ययनं 'कथितं' प्रतिपा|दितं, तेऽप्येतच्छुला संसारासारतामवगम्य विषयाणां च कटुविपाकतां निःसारतां च ज्ञात्वा मत्तकरिकर्णवच्चपलमायुर्गिरिनदीवेगसमं यौवनमित्यतो भगवदाजैव श्रेयस्करीति तदन्तिके सर्वे प्रवज्यां गृहीतवन्त इति । अत्र 'उद्देसे निद्देसे य' इत्यादिः सर्वोऽप्युपोद्घातो भणनीयः ।। ३९ ।। साम्प्रतं उद्देशार्थाधिकार प्रागुल्लिखितं दर्शयितुमाह-- पढमे संबोहो अनिचया य बीमि माणवजणया । अहिगारो पुण भणिओतहा तहा बहविहो तत्थ ॥४॥ उद्देसंमि य तइए अन्नाणचियस्स अवचओ भणिओ। वजेयचो य सया सुहप्पमाओ जइजणेणं ॥ ४१ ।। | तत्र प्रथमोद्देशके हिताहितप्राप्तिपरिहारलक्षणो बोधो विधेयोऽनित्यता चेत्ययमर्थाधिकारः, द्वितीयोद्देशके मानो वर्जनीय इत्ययमर्थाधिकारः, पुनश्च तथा तथाऽनेकप्रकारो बहुविधं शब्दादावर्थेऽनित्यतादिप्रतिपादकोऽर्थाधिकारो भणित इति, तृतीयोदेशके अज्ञानोपचितस्य कर्मणोऽपचयरूपोर्धाधिकारो भणित इति यतिजनेन च सुखप्रमादो वर्जनीयः सदेति ॥४॥ साम्प्रतं सूत्रानुगमे अस्खलितादिगुणोपेतं सूत्रमुच्चारणीयं, तच्चेदम् - संबुज्झह किं न बुज्झह?, संवोही खलु पेञ्च दुल्लहा।णो हूवणमंति राइओ,नों सुलभं पुणरावि जीवियं ॥१॥ १ यद्यपि शिक्षायति बचनात्पादन बीत्वमेकचनान्वितं तथापि प्रतिपुत्रं प्रश्नोत्तरपार्थक्यविवक्षयान बहुत्वं । क्षेत्रमैत्राभ्यामेकविक्षसी दत्तमितिवत् ।
दीप
seeeeeeeeeeees
अनुक्रम [८९]
उद्देशानाम अर्थाधिकारः, द्वितीय-अध्ययनस्य प्रथम सूत्रस्य आरम्भ:
~111~