SearchBrowseAboutContactDonate
Page Preview
Page 809
Loading...
Download File
Download File
Page Text
________________ आगम (०१) प्रत सूत्रांक [१५४ ] दीप अनुक्रम [૪૮] “आचार” - अंगसूत्र - १ ( मूलं + निर्युक्तिः + वृत्ति:) श्रुतस्कंध [२.], चुडा [१], अध्ययन [ ७ ], उद्देशक [ - ], मूलं [ १५४...], निर्युक्ति: [ ३१६] मुनि दीपरत्नसागरेण संकलित ... आगमसूत्र - [०१], अंग सूत्र [०१] “आचार” मूलं एवं शिलांकाचार्य कृत् वृत्तिः अथ सप्तममवग्रहप्रतिमाख्य मध्ययनम् । उक्तं षष्ठमध्ययनमधुना सप्तममारभ्यते, अस्य चायमभिसम्बन्धः - पिण्डशय्यावस्त्र पात्रादयोऽवग्रहमाश्रित्य भवन्तीत्यतोऽसावेव कतिविधो भवतीत्यनेन सम्बन्धेनायातस्यास्याध्ययनस्य चत्वार्यनुयोगद्वाराणि भवन्ति, तत्रोपक्रमान्तर्गतोऽर्थाधिकारोऽयं यथा साधुना विशुद्धोऽवग्रहो ग्राह्य इति, नामनिष्पन्ने तु निक्षेपेऽवग्रहप्रतिमेति नाम, तत्रावग्रहस्य नामस्थापने क्षुण्णत्वादनादृत्य द्रव्यादिचतुर्विधं निक्षेपं दर्शयितुकामो नियुक्तिकार आह दब्वे खिते काले भावेऽवि य उग्गहो चउद्धा उ । देविंद १ रायउग्गह २ गिहवइ ३ सागरिय ४ साहम्मी ॥ ३१६ ॥ द्रव्यावग्रहः क्षेत्रावग्रहः कालावग्रहो भावावग्रहश्चेत्येवं चतुर्विधोऽवग्रहः, यदिवा सामान्येन पञ्चविधोऽवग्रहः, तद्यथा - देवेन्द्रस्य लोकमध्यवर्त्तिरुचकदक्षिणार्द्धमवग्रहः १, राज्ञश्चक्रवर्त्त्यादेर्भरतादिक्षेत्रं २ गृहपतेग्रममहत्तरादेग्रमपाटकादिकमवग्रहः ३, तथा सागारिकस्य - शय्यातरस्य घट्ङ्गशालादिकं ४, साधर्मिकाः साधवो ये मासकल्पेन तत्रावस्थितास्तेषां वसत्यादिरवग्रहः सपादं योजनमिति ५, तदेवं पञ्चविधोऽवग्रहः, वसत्यादिपरिग्रहं च कुर्वता सर्वेऽप्येते यथाऽवसरमनुज्ञाप्या इति ॥ साम्प्रतं द्रव्याद्यवग्रहप्रतिपादनायाह Jan Estication Intamational दब्युग्गहो उ तिविहो सचित्ताचित्तमीसओ चैव । खित्तुग्गहोऽवि तिविहो दुविहो कालुग्गहो होइ ॥ ३१७| द्रव्याद्यवग्रह स्त्रिविधः, शिष्यादेः सचित्तो रजोहरणादेरचित्तः शिष्यरजोहरणादेर्मिश्रः, क्षेत्रावग्रहोऽपि सचित्तादि प्रथम चूलिकायाः सप्तमं अध्ययनं “ अवग्रह प्रतिमा”, आरब्धं For Pantry at Use Only ~808~#
SR No.004101
Book TitleAagam 01 ACHAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages871
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_acharang
File Size145 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy