________________
आगम
(०१)
प्रत
सूत्रांक
[११०]
दीप
अनुक्रम
[ ४४४ ]
श्रीआचाराङ्गवृत्तिः (शी०)
॥ ३७४ ॥
“आचार” - अंगसूत्र - १ ( मूलं + निर्युक्तिः + वृत्तिः)
श्रुतस्कंध [२.], चुडा [१], अध्ययन [ २ ], उद्देशक [३] मूलं [ ११० ], निर्युक्तिः [३०४] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र [०१], अंग सूत्र [०१] “आचार” मूलं एवं शिलांकाचार्य कृत् वृत्तिः
सुखोनेयं यावत्तथाप्रकारासु वसतिषु विद्यमानासु 'प्रगृहीततर' मिति यैव काचिद्विषमसमादिका वसतिः संपन्ना तामेव समचित्तोऽधिवसेत् न तत्र व्यलीकादिकं कुर्यात्, एतत्तस्य भिक्षोः सामग्र्यं यत्सर्वार्थैः सहितः सदा यतेतेति ॥ द्वितीयमध्ययनं शय्याख्यं समाप्तम् ॥ २-१-२-२ ॥
DIA
उक्तं द्वितीयमध्ययनं साम्प्रतं तृतीयमारभ्यते, अस्य चायमभिसम्बन्धः - इहायेऽध्ययने धर्मशरीरपरिपालनार्थं पिण्डः प्रतिपादितः स चावश्यमैहिकामुष्मिकापायरक्षणार्थं वसतौ भोक्तव्य इति द्वितीयेऽध्ययने वसतिः प्रतिपादिता, साम्प्रतं तयोरभ्वेषणार्थं गमनं विधेयं तच्च यदा यथा विधेयं यथा च न विधेयमित्येतत्प्रतिपाद्यम्, इत्यनेन सम्बन्धेनायातस्यास्याध्ययनस्य चत्वार्यनुयोगद्वाराणि भवन्ति, तत्र निक्षेप निर्युक्तयनुगमे नामनिक्षेपणार्थ निर्युक्तिकृदाहनामं १ ठवणाइरिया २ दग्वे ३ खित्ते ४ यकाल ५ भावे ६ य । एसो खलु इरियाए निक्खेवो छब्विहो होइ ॥ ३०५ ॥ कण्ठ्यं । नामस्थापने क्षुण्णत्वादनादृत्य द्रव्येर्याप्रतिपादनार्थमाह
दरियाओं तिविहा सचित्ताचित्तमीसमा चेव । खित्तंमि जंमि खित्ते काले कालो जहिं होइ ॥ ३०६ ॥ तत्र द्रव्ये सचित्ताचित्तमिश्रभेदात्रिविधा, ईरणमीर्या गमनमित्यर्थः, तत्र सचित्तस्य- वायुपुरुषादेर्द्रव्यस्य यज्ञमनं सा सचित्तद्रव्येर्या, एवं परमाण्वादिद्रव्यस्य गमनमचित्तद्रव्येर्या, तथा मिश्रद्रव्येर्या रथादिगमनमिति, क्षेत्रेर्या यस्मिन् क्षेत्रे गमनं क्रियते ईर्ष्या वा वर्ण्यते, एवं कालेर्याऽपि द्रष्टव्येति ॥ भावेर्याप्रतिपादनायाह
Etication Intemational
For Parts Only
श्रुतस्कं०२ चूलिका
~753~#
ॐ ई० ३
2 उद्देशः १
॥ ३७४ ॥
अत्र यत् २-१-२-२ लिखितं, तत् मुद्रण दोष:। (यहाँ २/१/२/३ होना चाहिए, क्योंकि दूसरे श्रुतस्कंध की पहेली चुडा के दूसरे अध्ययन का ये तीसरा उद्देश समाप्त हुआ है| अब यहाँ तीसरा अध्ययन आरम्भ हो रहा है। प्रथम चूलिकायाः तृतीय-अध्ययनं "ईर्या”, प्रथम उद्देशक: आरब्धः