SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ आगम (०१) प्रत सूत्रांक [१३] दीप अनुक्रम [१३] श्रीआचाराङ्गवृत्तिः (शी० ) ॥ ३३ ॥ टू प्रमाणं सचित्तपृथिवीगोलक मेकविंशतिकृत्वो गन्धपट्टके कठिनशिलापुत्रकेण पिंष्यात्, ततस्तेषां पृथिवीजीवानां कश्चिसङ्घट्टितः कश्चित्परितापितः कश्चिद्व्यापादितोऽपरः किल तेन शिलापुत्रकेण न स्पृष्टोऽपीति ॥ वधद्वारमाह5 पवयंति य अणगारा ण य तेहि गुणेहि जेर्हि अणगारा । पुढत्रिं विहिंसमाणा न हु ते वायाहि अणगारा ॥९९॥ इह ह्येके कुतीर्थिका यतिवेषमास्थाय एवं च प्रवदन्ति वयम् 'अनगाराः' प्रब्रजिताः, न च 'तेषु गुणेषु' निश्वयानुष्ठानरूपेषु प्रवर्त्तन्ते येष्वनगाराः, यथा चानगारगुणेषु न प्रवर्त्तन्ते तद्दर्शयति-यतस्तेऽहर्निशं पृथिवी जन्तुविपत्तिकारिणो दृश्यन्ते गुदपाणिपादप्रक्षालनार्थम्, अन्यथापि निर्लेपनिर्गन्धत्वं कर्तुं शक्यम्, अतश्च यतिगुणकलापशून्या न वाडवात्रेण युक्तिनिरपेक्षेणानगारत्वं विभ्रतीति, अनेन प्रयोगः सूचितः, तत्र गाथापूर्वार्द्धेन प्रतिज्ञा, पश्चार्द्धन हेतुः, उत्तरगाथार्द्धन साधर्म्यदृष्टान्तः, स चायं प्रयोगः- कुतीर्थिका यत्यभिमानवादिनोऽपि यतिगुणेषु न प्रवर्तन्ते, पृथिवीहिंसाप्रवृत्तत्वाद्, इह ये ये पृथिवीहिंसाप्रवृत्तास्ते ते यतिगुणेषु न प्रवर्त्तन्ते, गृहस्थवत् ॥ साम्प्रतं दृष्टान्तगर्भ निगमनमाहअणगारवाइणो पुढविहिंसगा निग्गुणा अगारिसमा । निहोसत्ति य महला विरइदुगंछाइ महलतरा ॥ १०० ।। 'अनगारवादिनो' वयं यतय इति वदनशीलाः पृथिवीकायविहिंस कास्सन्तो निर्गुणा यतोऽतः 'अगारिसमा ' गृहस्थतुल्या भवन्ति, अभ्युच्चयमाह - सचेतना पृथिवीत्येवं ज्ञानरहितत्वेन तत्समारम्भवर्त्तिनः सदोपा अपि सन्तो वयं निर्दोषा इत्येवं मन्यमानाः स्वदोषप्रेक्षाविमुखत्वात् 'मलिनाः' कलुषितहृदयाः, पुनश्चातिप्रगल्भतया साधुजनाश्रिताया निरवद्या ॥ ३३ ॥ नुष्ठानात्मिकाया विरते: 'जुगुप्सया' निन्दया मलिनतरा भवन्ति, अनया च साधुनिन्दयाऽनन्तसंसारित्वं प्रदर्शितं भव ४ ★ “आचार” - अंगसूत्र - १ ( मूलं + निर्युक्तिः + वृत्ति:) श्रुतस्कंध [१.], अध्ययन [ १ ], उद्देशक [२], मूलं [१३...], निर्युक्तिः [ ९८] मुनि दीपरत्नसागरेण संकलित ..... आगमसूत्र - [०१], अंग सूत्र- [ ०१] “आचार” मूलं एवं शिलांकाचार्य कृत् वृत्तिः Estication Intimat वध द्वारं, अनगारवादी For Pantry O ~70~# अध्ययनं १ उद्देशकः २ www.anditary.org
SR No.004101
Book TitleAagam 01 ACHAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages871
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_acharang
File Size145 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy