SearchBrowseAboutContactDonate
Page Preview
Page 687
Loading...
Download File
Download File
Page Text
________________ आगम (०१) प्रत सूत्रांक [३२] दीप अनुक्रम [३६६ ] Jan Estication Intimat “आचार” - अंगसूत्र - १ ( मूलं + निर्युक्तिः + वृत्ति:) श्रुतस्कंध [२.], चुडा [१], अध्ययन [१], उद्देशक [५], मूलं [३२], निर्युक्तिः [२९७] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०१], अंग सूत्र [०१] “आचार” मूलं एवं शिलांकाचार्य कृत् वृत्तिः जाइजा, नो गा० अं० उक्लंपिय [ उक्खलुंदिय] २ जाइजा, नो गाहावई वंदिय २ जाइजा नो ववणं फरसं वजा || ( सू० ३२ ) स भिक्षुर्भिक्षार्थं गृहपतिकुलं प्रविष्टः सन्नैतत्कुर्यात् तद्यथा नो गृहपतिकुलस्य द्वारशाखाम् 'अवलम्व्यावलम्ब्य ' पौनःपुन्येन भृशं वाऽवलम्ब्य तिष्ठेद् यतः सा जीर्णत्वात्पतेद् दुष्प्रतिष्ठितत्वाद्वा चलेत् ततश्च संयमात्मविराधनेति, तथा 'उदकप्रतिष्ठापनमात्रके' उपकरणधावनोदकप्रक्षेपस्थाने प्रवचनजुगुप्साभयान्न तिष्ठेत् तथा 'चंदणिउदय'त्ति आचमनोदकप्रवाहभूमौ न तिष्ठेद्, दोषः पूर्वोक्त एव, तथा स्नानवर्चः संलोके तत्प्रतिद्वारं वा न तिष्ठेत्, एतदुक्तं भवतियत्र स्थितैः स्नानयर्थः क्रिये कुर्वन् गृहस्थः समवलोक्यते तत्र न तिष्ठेदिति, दोपश्चात्र दर्शनाशङ्कया निःशङ्कतत्क्रियाया अभावेन निरोधप्रद्वेषसम्भव इति, तथा नैव गृहपतिकुलस्य 'आलोकम्' आलोकस्थानं गवाशादिकं, 'थिग्गलं'ति प्रदेशपतित संस्कृतं, तथा 'संधि'त्ति चौरखातं भित्तिसन्धि वा, तथा 'उदकभवनम्' उदकगृहं, सर्वाण्यप्येतानि भुजां 'प्रगृह्य प्रगह्य' पौनःपुम्बेन प्रसार्य तथाऽङ्गल्योद्दिश्य तथा कायमवनम्योन्नस्य च न निध्यापयेत् न प्रलोकयेन्नाप्यन्यस्मै प्रदर्शयेत् सर्वत्र द्विर्वचनमादरख्यापनार्थ, तत्र हि हृतनष्टादौ शङ्कोत्पद्यत इति ॥ अपि च-स भिक्षुर्गहपतिकुलं प्रविष्टः सन्नैव गृहपतिमङ्गुल्याऽत्यर्थमुद्दिश्य तथा चालयित्वा तथा 'तर्जयित्वा' भयमुपदर्श्य तथा कण्डूयनं कृत्वा तथा गृहपतिं 'वन्दित्वा' वाग्भिः स्तुत्वा प्रशस्य नो याचेत, अदत्ते च नैव तद्गृहपतिं परुषं वदेत्, तद्यथा-यक्षस्त्वं परगृहं रक्षसि कुतस्ते For Party Use Onl ~686 ~# www.andbrary.org
SR No.004101
Book TitleAagam 01 ACHAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages871
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_acharang
File Size145 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy