________________
आगम
(०१)
प्रत
सूत्रांक
||||
दीप
अनुक्रम [२९५]
Jain Estucation
“आचार” - अंगसूत्र -१ ( मूलं + निर्युक्तिः + वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [ ९ ], उद्देशक [२], मूलं [ २२६ / गाथा- ८ ], निर्युक्तिः [२८४] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०१], अंग सूत्र -[०१] “आचार” मूलं एवं शिलांकाचार्य कृत् वृत्तिः
त्रापि स्वापाभ्युपगमपूर्वकं शयित इत्यर्थः ॥ किं च स मुनिनिंद्राप्रमादाद् व्युत्थितचित्तः 'संबुध्यमानः' संसारपातायायं प्रमाद इत्येवमवगच्छन् पुनरप्रमत्तो भगवान् संयमोत्थानेनोत्थाय यदि तत्रान्तर्व्यवस्थितस्य कुतश्चिन्निद्राप्रमादः स्यात् ततस्तस्मान्निष्क्रम्यैकदा शीतकालरात्रादी बहिश्चङ्क्रम्य मुहूर्त्तमात्रं निद्राप्रमादापनयनार्थं ध्याने स्थितवानिति ॥ किं च-शथ्यते - स्थीयते उत्कुडुकासनादिभिर्येष्विति शयनानि - आश्रयस्थानानि तेषु तैर्वा तस्य भगवत उपसर्गा 'भीमा' भयानका आसन् अनेकरूपाश्च शीतोष्णादिरूपतयाऽनुकूलप्रतिकूलरूपतया वा तथा संसर्पन्तीति संसकाः-शून्यगृहादावहिनकुलादयो ये प्राणिनः 'उपचरन्ति' उप- सामीप्येन मांसादिकमश्नन्ति अथवा श्मशानादौ पक्षिणो गृधादय उपचरन्तीति वर्त्तते । किं च- 'अर्थ' अनन्तरं कुत्सितं चरन्तीति कुचरा:- चौरपारदारिकादयस्ते च कचिच्छून्यगृहादौ 'उपचरन्ति' उपसर्गयन्ति, तथा ग्रामरक्षादयश्च त्रिकचत्वरादिव्यवस्थितं शक्तिकुन्तादिहस्ता उपचरन्तीति, अथ 'ग्रामिका' ग्रामधर्म्माश्रिता उपसर्गा एकाकिनः स्युः, तथाहि काचित्स्त्री रूपदर्शनाभ्युपपन्ना उपसर्गयेत् पुरुषो वेति ॥ किंचइहलोइयाई परलोइयाई भीमाई अणेगरुवाई | अवि सुब्भि दुब्भिगन्धाई सदाई अगवाई ॥ ९ ॥ अहियासए सया समिए फासाई विरूवरूवाई । अरई रई अभिभूय रीयइ माहणे अबहुवाई ॥ १० ॥ स जणेहिं तत्थ पुच्छि एगचरावि एगया राओ । अव्aाहिए कसाइत्था पेहमाणे समाहिं अपनेि ॥ ११ ॥ अयमंतरंसि
For Pantry Use Only
~619 ~#