________________
आगम
(०१)
“आचार" - अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [९], उद्देशक [१], मूलं [२२६/गाथा-२३],नियुक्ति: [२८४] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
उपधा०९
प्रत
श्रीआचारानवृत्ति (शी०)
उद्देशकः१
सूत्रांक
॥ ३०६॥
||२३||
दीप अनुक्रम २८७]]
अल्पशब्दोऽभावे वर्तते, अल्पं तिर्यक्-तिरश्चीनं गच्छन् प्रेक्षते, तथाऽल्पं पृष्ठतः स्थित्वोत्प्रेक्षते, तथा मार्गादि केनचि-1 स्पृष्टः सन्नप्रतिभाषी सन्नल्प ब्रूते, मौनेन गच्छत्येव केवलमिति दर्शयति-पथिप्रेक्षी 'चरे' गच्छेद्यतमानः-प्राणिविषये यत्नवानिति ।। किं च-अध्वप्रतिपन्ने शिशिरे सति तद्देवदूष्यं वखं व्युत्सृज्यानगारो भगवान् प्रसार्य बाहू पराक्रमते,
न तु पुनः शीतार्दितः सन् सङ्कोचयति, नापि स्कन्धेऽवलम्ब्य तिष्ठतीति ।। साम्प्रतमुपसञ्जिहीर्षुराह-एप चर्या विधिहरनन्तरोक्तोऽनुक्रान्तः-अनुचीर्णः 'माहणेण'त्ति श्रीवर्द्धमानस्वामिना 'मतिमता' विदितवेद्येन 'बहुशः' अनेकप्रकारमद प्रतिज्ञेन-अनिदानेन 'भगवता' ऐश्वर्यादिगुणोपेतेन, 'एवम्' अनेन पथा भगवदनुचीर्णेनान्ये मुमुक्षवोऽशेषकर्मक्ष
याय साधवो 'रीयन्ते' गच्छन्तीति । इतिरधिकारपरिसमाप्तौ, ब्रवीमीति पूर्ववत्, उपधानश्रुताध्ययनस्य प्रथमोद्देशक इति ॥ उक्तः प्रथमोद्देशकः, साम्प्रतं द्वितीय आरभ्यते, अस्य चायमभिसम्बन्धः-इहानन्तरोदेशके भगवतश्चर्याऽभिहिता, तत्र चावश्यं कयाचिच्छय्यया-बसत्या भाव्यमतस्तत्प्रतिपादनायायमुद्देशकः प्रक्रम्यते इत्यनेन सम्बन्धेनायातस्यास्योद्देशकस्यादि सूत्रम्
चरियासणाई सिज्जाओ एगइयाओ जाओ बुइयाओ। आइक्ख ताई सयणासणाई जाई सेविस्था से महावीरे ॥ १ ॥ आवेसणसभापवासु पणियसालासु एगया वासो । अदुवा पलियठाणेसु पलालपुञ्जेसु एगया वासो ॥२॥ आगन्तारे आरा
॥३०६॥
नवम-अध्ययने द्वितीय-उद्देशक: 'शय्या' आरब्ध:,
~616~#