________________
आगम
(०१)
प्रत सूत्रांक
||१६||
दीप
अनुक्रम
[ २८०]
“आचार” - अंगसूत्र - १ (मूलं + निर्युक्तिः + वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [ ९ ], उद्देशक [१], मूलं [ २२६ / गाथा - १६], निर्युक्तिः [२८४] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र [०१], अंग सूत्र [०१] “आचार” मूलं एवं शिलांकाचार्य कृत् वृत्तिः
सत्त्वाः सर्वगतिभाजः, ते च 'बाला'रागद्वेषाकलिताः स्वकृतेन कर्मणा पृथक्तया सर्वयोनिभाकूत्वेन च 'कल्पिताः' व्यवस्थिता इति, तथा चोक्तम् — “ णत्थि किर सो पएसो लोए वालग्ग कोडिमित्तोऽवि । जम्मणमरणाबाहा अणेगसो जत्थ णवि पत्ता ॥ १ ॥" अपि च--" रङ्गभूमिर्न सा काचिच्छुद्धा जगति विद्यते । विचित्रैः कर्म्मनेपथ्यैर्यत्र सर्न नाटितम् ॥ २ ॥ इत्यादि ॥ किं च-भगवांश्च-असौ वीरवर्द्धमानस्वाम्येवममन्यत ज्ञातवान् सह उपधिना वर्त्तत इति सोपधिकः- द्रव्यभावोपधियुक्तः, सुरवधारणे, लुध्यत एव - कर्मणा क्लेशमनुभवत्येव 'अज्ञो' बाल इति यदिवा हुर्हेती य स्मात्सोपधिकः कर्म्मणा लुप्यते बालस्तस्मात्कर्म्म च सर्वशो ज्ञात्वा तत्कर्म्म प्रत्याख्यातवांस्तदुपादानं च पापकमनुष्ठानं भगवान् वर्द्धमानस्वामीति । किं च-द्वे विधे-प्रकारावस्येति द्विविधं किं तत् ? - कर्म्म, तच्चेर्याप्रत्ययं साम्परायिकं च, तद्विविधमपि 'समेत्य' ज्ञात्वा 'मेघावी' सर्वभावज्ञः, 'क्रिया' संयमानुष्ठानरूपां कम्मच्छेत्रीमनीदृशीम् अनन्यसदृशी माख्यातवान् किंभूतो?-ज्ञानी, केवलज्ञानवानित्यर्थः, किं चापरमाख्यातवानिति दर्शयति-आदीयते कर्मानेनेति आदानं दुष्प्रणिहितमिन्द्रियमादानं च तत् स्रोतश्चादानस्रोतस्तत् ज्ञात्वा तथाऽतिपातस्रोतश्च उपलक्षणार्थत्वादस्य मृषावादादिकमपि ज्ञात्वा तथा 'योगं च' मनोवाक्कायलक्षणं दुष्प्रणिहितं 'सर्वशः' सर्वैः प्रकारैः कर्म्मबन्धायेति ज्ञात्वा क्रियां संयमलक्षणामाख्यातवानिति सम्बन्धः ॥ किं चं
अवत्तियं अणाउहिं सयमन्नेसिं अकरणयाए । जस्सित्थिओ परिन्नाया सव्वकम्मावहा
१ नास्ति किल स प्रदेश लोके [वालामकोटीमात्रोऽपि जन्ममरणाबामा भनेकशो यत्र नैव प्राप्ताः ॥ १ ॥
For Pantry Use Onl
~613~#