________________
आगम
(०१)
प्रत
सूत्रांक
||१६||
दीप
अनुक्रम [ २८०]
“आचार” - अंगसूत्र - १ (मूलं + निर्युक्तिः + वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [ ९ ], उद्देशक [१], मूलं [ २२६ / गाथा - १६], निर्युक्तिः [२८४] मुनि दीपरत्नसागरेण संकलित ..... आगमसूत्र - [०१], अंग सूत्र- [ ०१] “आचार” मूलं एवं शिलांकाचार्य कृत् वृत्तिः
श्री आचा राङ्गवृत्तिः
(शी०)
॥ ३०४ ॥
कठिना तु पृथ्वीशर्करावालुकादि पत्रिंशद्भेदा शस्त्रपरिज्ञानुसारेण द्रष्टव्या, अप्कायोऽपि सूक्ष्मवादरभेदाद्विधा, तत्र सूक्ष्मः पूर्ववद्वादरस्तु शुद्धोदकादिभेदेन पञ्चधा, तेजःकायोऽपि पूर्ववत् नवरं बादरोऽङ्गारादि पञ्चधा, वायुरपि तथैत्र, नवरं बादर उत्कलिकादिभेदेन पञ्चधा, वनस्पतिरपि सूक्ष्मवादरभेदेन द्विधा, तत्र सूक्ष्मः सर्वगो बादरोऽप्यग्रमूलस्कन्धपर्वबीजसम्मूर्छन भेदात्सामान्यतः षोढा, पुनर्द्विधा प्रत्येकः साधारणश्च तत्र प्रत्येको वृक्षगुच्छादिभेदाद्वादशधा, साधा* रणस्वनेकविध इति, स एवं भेदभिन्नोऽपि वनस्पतिः सूक्ष्मस्य सर्वगतत्वादतीन्द्रियत्वाच्च तद्व्युदासेन बादरो भेदत्वेन संगृहीतः, तद्यथा-पनकग्रहणेन बीजाङ्कुरभावरहितस्य पनकादेरुल्यादिविशेषापन्नस्य ग्रहणं, बीजग्रहणेन त्वग्रबीजादेरुपादानं, हरितशब्देन शेषस्येत्येतानि पृथिव्यादीनि भूतानि सन्ति' विद्यन्त इत्येवं प्रत्युपेक्ष्य तथा 'चित्तवन्ति' सचेतनान्यभिधाय-ज्ञात्वा 'इति' एतत्सङ्ख्याय- अवगम्य स भगवान्महावीरस्तदारम्भं परिवर्ज्य विहृतवानिति । पृथिवीकायादीनां जन्तूनां त्रसस्थावरत्वेन भेदमुपदर्श्य साम्प्रतमेषां परस्परतोऽनुगमनमप्यस्तीत्येतद्दर्शयितुमाह-- 'अर्थ' आनन्तर्ये 'स्थावराः' पृथिव्यप्तेजोवायुवनस्पतयः ते 'त्रसतया' द्वीन्द्रियादितया 'विपरिणमन्ते' कर्मवशाद् गच्छन्ति, चशब्द उत्तरापेक्षया समुच्चयार्थः, तथा 'सजीवाश्च' कृम्यादयः 'स्थावरतया' पृथिव्यादित्वेन कर्म्मनिघ्नाः समुत्पद्यन्ते, तथा चान्यत्राप्युक्तम् -" "अयणं भन्ते ! जीवे पुढविका इयत्ताए जाव तसकाइयत्ताए उबवण्णपुब्बे ?, हन्ता गोअमा ! असई अदुवाऽणंतखुत्तो जाव उबवण्णपुच्वे"त्ति, अथवा सर्वा योनयः- उत्पत्तिस्थानानि येषां सत्वानां ते सर्वयोनिकाः ॥ ३०४ ॥
१] [r] भदन्त । जीवः पृथ्वीकायिकतया दावत् सकायिकतयोत्पन्नपूर्वः १, इन्त गौतम असकृत् अनन्तकृत्यो यावदुत्पन्नपूर्वः
Jan Estication Intimational
For Pantry O
~ 612 ~#
उपधा० ९
उद्देशकः १