________________
आगम
(०१)
“आचार" - अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [८], उद्देशक [८], मूलं [२२६/गाथा-१२,नियुक्ति: [२७५] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
सूत्राक ||१२||
दीप अनुक्रम [२५१]
CATARNARSS
ध्यानान्यतरोपेतः 'आयुःकालस्य' मृत्युकालस्य 'पारगः' पारगामी स्यात्-यावदन्त्या उच्छासनिश्वासास्तावत्तद्विदध्याद, एतन्मरणविधानकारी सिद्धिं त्रिविष्टपं वा प्रामुयादिति गतं भक्तपरिज्ञामरणं । साम्प्रतमिङ्गितमरणं श्लोका दिनोच्यतेतद्यथा-'प्रगृहीततरकं चेदं' प्रकर्षण गृहीततरं प्रगृहीततरं तदेव प्रगृहीततरकम् , 'इद'मिति वक्ष्यमाणमिङ्गितमरणम्, एतद्धि भक्तप्रत्याख्यानात्सकाशानियमेन चतुर्विधाहारप्रत्याख्यानादिमितप्रदेशसंस्तारकमात्रविहाराभ्युपगमाच विशिष्ट
तरधृतिसंहननायुपेतेन प्रकर्षण गृह्यत इति, कस्यैतद्भवति ?-द्रव्यं-संयमः स विद्यते यस्यासी द्रविकस्तस्य 'विजामानतो' गीतार्थस्य जघन्यतोऽपि नवपूर्वविशारदस्य भवति, नान्यस्येति, अत्रापीनितमरणे यत्संलेखनातृणसंस्तारादिकमभिहितं तत्सर्व वाच्यम् ॥ ११ ॥ अयमपरो विधिरित्याह-'अयं स' इति सोऽयम् 'अपरः' अन्यो भक्तप्रत्याख्यानाद्भिन्न इनितमरणस्य 'धर्मो विशेषो 'ज्ञातपुत्रेण' वीरवर्द्धमानस्वामिना सुवाहितः-उपलब्धः स्वाहितः, अस्य चानन्तरं वक्ष्यमाणत्वात्प्रत्यक्षासन्नवाचिनेदमाऽभिधानं, अत्रापीङ्गितमरणे प्रत्यादिको विधिः संलेखना च पूर्वबद्रष्टव्या, तथोपकरणादिकं हित्वा स्थण्डिलं प्रत्युपेक्ष्यालोचितप्रतिक्रान्तः पञ्चमहाव्रतारूढश्चतुर्विधमाहारं प्रत्याख्याय संस्तारके तिष्ठति, अयमत्र विशेष:-आत्मवर्ज प्रतिचारम्-अङ्गव्यापार विशेषेण जह्यात्-त्यजेत् 'त्रिविधत्रिविधेने'ति मनोवाकायैः कृतकारितानुमतिभिः स्वव्यापारव्यतिरेकेण परित्यजेत् , स्वयमेव चोद्वर्तनपरिवर्तनं कायिकायोगादिक || विधत्ते ॥१२॥ सर्वथा प्राणिसंरक्षणं पौनःपुन्येन विधेयमिति दर्शयितुमाह
हरिपसु न निवजिज्जा, थण्डिलं मुणिया सए । विओसिज अणाहारो, पुटो तत्था
कष्टकर
~587~#