________________
आगम
(०१)
प्रत
सूत्रांक
[२१५]
दीप
अनुक्रम
[२२८]
44444
“आचार” - अंगसूत्र - १ ( मूलं + निर्युक्तिः + वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [ ८ ], उद्देशक [४], मूलं [२१५],निर्युक्तिः [२७५] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र [०१], अंग सूत्र [०१] “आचार” मूलं एवं शिलांकाचार्य कृत् वृत्तिः
विअंतिकारए, इच्चेयं विमोहायतणं हियं सुहं खमं निस्सेसं आणुगामियं तिबेमि
( सू० २१५ ) ॥ ८-४ ॥ विमोक्षाध्ययने चतुर्थ उद्देशकः ॥
'णम्' इति वाक्यालङ्कारे यस्य भिक्षोर्मन्दसंहनन तया एवम्भूतोऽध्यवसायो भवति, तद्यथा-स्पृष्टः खल्वहमस्मि रोगातकैः शीतस्पर्शादिभिर्वा ख्यायुपसर्गेर्वा ततो ममास्मिन्नवसरे शरीरविमोक्षं कर्तुं श्रेयो 'ना' न समर्थोऽहमस्मि, 'शीतस्पर्श' शीतापादितं दुःखविशेष भावशीतस्पर्श वा ख्यायुपसर्गम् 'अध्यासयितुम्' अधिसोदुमित्यतो भक्तपरिज्ञेङ्गितमरणपादपोपगमनमुत्सर्गतः कर्तुं युक्तं, न च तस्य ममास्मिन्नवसरेऽवसरो यतो मे कालक्षेपासहिष्णुरुप सर्गः समु|त्थितो रोगवेदनां वा चिराय सोढुं नालमतो बेहानसं गार्द्धपृष्ठं वा आपवादिकं मरणमत्र साम्प्रतं न पुनरुपसर्गितस्तदेवाभ्युपेयादित्याह - 'स' साधुः वसु-द्रव्यं स चात्र संयमः स विद्यते यस्यासौ वसुमान्, सर्वसमन्वागतप्रज्ञानेनात्मना कश्चिदर्द्धकटाक्षनिरीक्षणादुपसर्गसम्भवे सत्यपि तदकरणतया आ-समन्ताद्वतो व्यवस्थित आवृत्तो, यदिवा शीतस्पर्शवातादिजनितं दुःखविशेषमसहिष्णुस्तच्चिकित्साया अकरणतया वसुमान् सर्वसमन्वागतप्रज्ञानेनात्मना आवृत्तो व्यव स्थित इति, स चोपसर्गितो वातादिवेदनां चासहिष्णुः किं कुर्यादित्याह-हुर्हेतौ यस्माचिराय वातादिवेदनां सोढुमसहिष्णुः, यदिवा यस्मात् सीमन्तिनी उपसर्गवितुमुपस्थिता विषभक्षणोद्बन्धनाद्युपन्यासेनापि न मुञ्चति ततस्तपस्विनः प्रभूततरकालनानाविधोपायोपार्जिततपोधनस्य तदैव श्रेयो यदेकः कश्चिन्निजैः सपलीकोऽपवरके प्रवेशितः आरूढप्रण
Jan Estication Intimanal
For Parts Only
~561~#
www.indiary.org