SearchBrowseAboutContactDonate
Page Preview
Page 557
Loading...
Download File
Download File
Page Text
________________ आगम (०१) प्रत सूत्रांक [२१०] दीप अनुक्रम [२२३] (शी०) श्रीआचा-४ महामुनिराह - भो गृहपते ! न खलु मे कल्पतेऽग्निकार्य मनाग ज्वालयितुं (उज्वालयितुं प्रकर्षेण ज्वालयितुं प्रज्वालयितुं राङ्गवृत्तिः स्वतो ज्वलितादी 'कार्य' शरीरमीपत् तापयितुमातापयितुं वा प्रकर्षेण तापयितुं प्रतापयितुं वा, अन्येषां वा वचनात् ममैतत्कर्त्तु न कल्पते, यदिवाऽग्निसमारम्भायान्यो वा वक्तुं न कल्पते ममेति । तं चैवं वदन्तं साधुमवगम्य गृहपतिः कदाचिदेतत्कुर्यादित्याह - स्यात् कदाचित्स-परो गृहस्थ एवमुक्तनीत्या वदतः साधोरनिकायमुज्वालय्य प्रज्वालय्य वा कायमातापयेत् प्रतापयेद्वा, तज्च्चोज्वालनातापनादिकं भिक्षुः 'प्रत्युपेक्ष्य' विचार्य स्वसम्मत्या परव्याकरणेनान्येषां वाऽन्तिके श्रुत्वा अवगम्य ज्ञात्वा तं गृहपतिमाज्ञापयेत् प्रतिबोधयेत् कया ? - अनासेवनया, यथैतत् ममायुक्तमासेवितुं, भवता तु पुनः साधुभक्त्यनुकम्पाभ्यां पुण्यप्राग्भारोपार्जनमकारीति, ब्रवीमीतिशब्दायुक्तार्थौ । विमोक्षाध्ययनस्य तृतीयोद्देशकः परिसमाप्तः । ॥ २७६ ॥ “आचार” - अंगसूत्र - १ ( मूलं + निर्युक्तिः + वृत्ति:) श्रुतस्कंध [१.], अध्ययन [ ८ ], उद्देशक [३], मूलं [२१०],निर्युक्ति: [२७५] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०१], अंग सूत्र -[०१] “आचार” मूलं एवं शिलांकाचार्य कृत् वृत्तिः ४ उक्तस्तृतीयोदेशकः, साम्प्रतं चतुर्थ आरभ्यते, अस्य चायमभिसम्बन्धः, इहानन्तरोदेश के गोचरादिगतेन शीताद्यङ्ग| विकारदर्शनान्यथाभावापनस्य गृहस्थस्यासदारेका व्युदस्ता, यदि पुनर्गृहस्थाभावे योषित एवान्यधाभावाभिप्रायेणोपसर्गयेयुः ततो वैहानसगार्द्धपृष्ठादिकं मरणमप्यवलम्बनीयं, कारणाभावे तु तन्न कार्यमित्येतत्प्रतिपादनार्थमिदमारभ्यत इत्यनेन सम्बन्धेनायातस्यास्योद्देश कस्यादिसूत्रम् - Etication national अष्टम अध्ययने चतुर्थ उद्देशक : 'वेहासनादि मरण' आरब्धः, For Para Prata Use Onl ~556 ~# विमो० ८ उद्देशकः४ ॥ २७६ ॥
SR No.004101
Book TitleAagam 01 ACHAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages871
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_acharang
File Size145 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy