________________
आगम
(०१)
प्रत
सूत्रांक
[२०७]
दीप
अनुक्रम [२२०]
श्रीआचाराङ्गवृत्तिः
(शी०)
॥ २७४ ॥
इह त्रीणि वयांसि - युवा मध्यमवया वृद्धश्चेति, तत्र मध्यमवयाः परिपक्कबुद्धित्वाद्धम्माई इत्यादौ दर्शयति-मध्यमेन वयसाऽप्येके सम्बुध्यमानाः धर्मचरणाय सम्यगुत्थिताः समुत्थिता इति, सत्यपि प्रथमचरमवयसोरुत्थाने यतो बाहुल्यायोग्यत्वाच्च प्रायो विनिवृत्तभोगकुतूहल इति निष्प्रत्यूहधर्म्माधिकारीति मध्यमवयोग्रहणं । कथं सम्बुज्यमानाः समुत्थिता | इत्याह-इह त्रिविधाः सम्बुध्यमानका भवन्ति, तद्यथा-स्वयंबुद्धाः प्रत्येकबुद्धाः बुद्धबोधिताश्च तत्र बुद्धबोधितेनेहाधिकार ४ इति दर्शयति-- 'मेधावी' मर्यादाव्यवस्थितः 'पण्डितानां' तीर्थ कृदादीनां 'वचनं' हिताहितप्राप्तिपरिहारप्रवर्त्तकं 'श्रुत्वा' आकर्ण्य पूर्व पश्चात् 'निशम्य' अवधार्य समतामा लम्बेत, किमिति :-यतः समतया - माध्यस्थ्येनायैः- तीर्थकृद्भिर्धर्मः श्रुतचा रित्राख्यः 'प्रवेदितः' आदी प्रकर्षेण वा कथित इति, ते च मध्यमे वयसि श्रुत्वा धर्म्म सम्बुध्यमानाः समुत्थिताः सन्तः किं कुर्युरित्याह-ते निष्क्रान्ताः मोक्षमभि प्रस्थिताः कामभोगानभिकाङ्क्षन्तः तथा प्राणिनोऽनतिपातयन्तः परिग्रह्मपरिगृहन्तः, आद्यन्तयोर्ग्रहणे मध्योपादानमपि द्रष्टव्यम्, तथा (तो) मृपावादमवदन्त इत्याद्यपि वाच्यम्, एवम्भूताः स्वदेहेऽप्यममत्वाः 'सव्वाति'त्ति सर्वस्मिन्नपि लोके, चः समुच्चये स च भिन्नक्रमः, 'णम्' इति वाक्यालङ्कारे, नो परिग्रहवन्तश्च भवन्तीतियावत् किं च प्राणिनो दण्डयतीति दण्डः परितापकारी तं दण्डं प्राणिषु प्राणिभ्यो वा 'निधाय' क्षिस्वा त्यक्त्वा 'पाप' पापोपादानं 'कर्म्म' अष्टादशभेदभिन्नं तत् 'अकुर्वाणः' अनाचरन्नेषु महान्, न विद्यते ग्रन्थः सबाह्याभ्य|न्तरोऽस्येत्यग्रन्थः 'व्याख्यातः' तीर्थंकरगणधरादिभिः प्रतिपादित इति । (कश्चैवम्भूतः स्यादित्याह - 'ओजः' अद्वितीयो रागद्वेषरहितः 'द्युतिमान् संयमो मोक्षो वा तस्य 'खेदशो' निपुणो देवलोकेऽप्युपपातं च्यवनं च ज्ञात्वा सर्वस्थानानि
“आचार” - अंगसूत्र - १ ( मूलं + निर्युक्तिः + वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [ ८ ], उद्देशक [३], मूलं [२०७],निर्युक्ति: [२७५] मुनि दीपरत्नसागरेण संकलित ... आगमसूत्र - [०१], अंग सूत्र [०१] “आचार” मूलं एवं शिलांकाचार्य कृत् वृत्तिः
Jan Esticato
For Pantry Use Only
~552~#
विमो० ८
उद्देशकः ३
॥ २७४ ॥
www.sindia.org