________________
आगम
(०१)
प्रत
सूत्रांक
[२०४]
दीप
अनुक्रम [२१७]
“आचार” - अंगसूत्र - १ ( मूलं + निर्युक्तिः + वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [ ८ ], उद्देशक [२], मूलं [२०४],निर्युक्तिः [२७५] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र [०१], अंग सूत्र [०१] “आचार” मूलं एवं शिलांकाचार्य कृत् वृत्तिः
पहारेण सहसात् कारयत आशु पञ्चत्वं नयत तथा विविधं परामृशत - नानापीडाकरणैर्वाधयत, तांश्चैवम्भूतान् 'स्प |र्शान' दुःखविशेषान् 'धीरः' अक्षोभ्यः तैः स्पर्शैः स्पृष्टः सन्नधिसहेत, तथा परैः क्षुत्पिपासापरी हैः स्पृष्टः सन्नधिसहेत, न तु पुनरुपसः परीषहैर्वा तर्जितो विक्लवतामापन्नस्तदुद्देशिकादिकमभ्युपेयादनुकूलैर्वा साम्यवादादिभिरुपसर्गितो नादद्याद्, अपि तु सति सामर्थ्ये जिनकल्पिकादन्यः आचारगोचरमाचक्षीतेत्याह- नानाविधोपसर्गजनितान् स्पर्शानधिस हेत, अथवा साधूनामाचारगोचरम् - आचारानुष्ठानविषयं मूलोत्तरगुणभेदभिन्नमाचक्षीत, न पुनर्नयैर्द्रव्यविचारं तत्रापि मूलगुणस्यैर्यार्थमुत्तरगुणान् तत्रापि पिण्डेपणाविशुद्धिमाचक्षीत, अत्र च पिण्डेपणा सूत्राणि पठितव्यानि अपि च- "यस्वयमदुःखितं स्यान्न च परदुःखे निमित्तभूतमपि । केवलमुपग्रहकरं धर्म्मकृते तद्भवेद्देयम् ॥ १ ॥” किं सर्वस्य सर्वे कथयेत् ?, नेति दर्शयति- 'तर्कयिखा' पर्यालोच्य पुरुषं तद्यथा कोऽयं पुरुषः कख नतोऽभिगृहीतोऽनभिगृहीतो मध्यस्थः प्रकृतिभद्रको वेत्येवमुपयुज्य यथार्ह यथाशक्ति चावेदयेत्, सत्यां च शक्तौ पञ्चावयवेनान्यथा वा वाक्येनानीदृशम्-अ| नन्यसदृशं स्वपरपक्षस्थापनाव्युदासद्वारेणावेदयेदिति, अथ सामर्थ्यविकलः स्यात् कुप्यति वा कथ्यमानेऽसावनुकूलप्रत्यनीकस्ततो वाग्गुप्तिविधेयेत्याह- सति सामर्थ्य शृण्वति वा दातरि आचारगोचरमाचक्षीत, 'अथवे' त्यन्यधाभावे तु वागुश्या व्यवस्थितः सन्नात्महितमाचरन् 'गोचरस्य' पिण्डविशुद्ध्यादेराचारगोचरस्य 'आनुपूर्व्या' उद्गमप्रनादिरूपया स म्यगशुद्धिं प्रत्युपेक्षेत, किम्भूतः - आत्मगुप्तः सन् सततोपयुक्त इत्यर्थः नैतन्मयोच्यत इत्याह-- 'बुद्धैः' कल्प्याकल्प्य विधिज्ञैः 'एतत्' पूर्वोक्तं प्रवेदितम् ॥ एतद्धा वक्ष्यमाणमित्याह
Estication anal
For Pantry at Use Only
~549 ~#
www.sendiary.org