________________
आगम
(०१)
प्रत
सूत्रांक
[१९६]
दीप
अनुक्रम
[२०९]
“आचार” - अंगसूत्र - १ ( मूलं + निर्युक्तिः + वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [ ६ ], उद्देशक [५], मूलं [१९६],निर्युक्तिः [२५२] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र [०१], अंग सूत्र [०१] “आचार” मूलं एवं शिलांकाचार्य कृत् वृत्तिः
शिरसि परानीकनिशिताकृष्टकृपाण निर्यत्प्रभासंवलितोद्यत्सूर्यत्विद्भूत विद्युन्नयन चमत्कृतिकारिणि कृतकरणोऽपि सुभटश्चित्तविकारं विधत्ते, एवं मरणकालेऽपि समुपस्थिते परिकर्मितमतेरप्यन्यथाभावः कदाचित्स्याद् अतो यो मरणकाले * न मुह्यति स पारगामी मुनिः संसारस्य कर्म्मणो वा उत्क्षिप्तभारस्य वा पर्यन्तयायीति । किं च विविधं परीषहोपसर्गैर्हन्यमानो विहन्यमानः न विहन्यमानोऽविहन्यमानः न निर्विण्णः सन् वैहानसं गार्द्धपृष्ठमन्यद्वा बालमरणं प्रतिपद्यत इति, यदिवा हन्यमानोऽपि सबाह्याभ्यन्तरतया तपः परीषहोपसर्गेः फलवदवतिष्ठते न कातरीभवति, तथा कालेनो| पनीतः कालोपनीतो मृत्युकालेनान्यवशतां प्रापितः सन् द्वादशवर्षसंलेखनयाऽऽत्मानं संलिख्य गिरिगह्वरादिस्थण्डिल| पादपोपगमनेङ्गितमरणभक्तपरिज्ञान्यतरावस्थोपगतः 'काल' मरणकालमायुष्कक्षयं यावच्छरीरस्य जीवेन सार्द्धं भेदो भवति तावदाकाङ्गेद्, अयमेव च मृत्युकालो यदुत शरीरभेदो, न पुनर्जीवस्यात्यन्तिको विनाशोऽस्तीति । इतिरधिकारपरिसमाप्तौ त्रवीमीत्यादिकं पूर्ववदिति, पञ्चमोदेशकः, तत्समाप्तौ समाप्तं भूताख्यं षष्ठमध्ययनमिति ॥ घं० ८३५ ॥
Jain Estication Intematonal
For Parts Only
www.indiary.org
पूर्वकालात् अध्ययन - ७ व्युच्छिन्नम्, स्वयं वृत्तिकारेण अस्य अध्ययन-विषये न किंचित् अपि कथितम् |
~521~#