________________
आगम (०१)
ངམྦྷཡྻ
अनुक्रम
“आचार” - अंगसूत्र - १ ( मूलं + निर्युक्तिः + वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [१], उद्देशक [१], मूलं [८], निर्युक्ति: [६६] मुनि दीपरत्नसागरेण संकलित ....आगमसूत्र [०१], अंग सूत्र [०१] “आचार" मूलं एवं शिलांकाचार्य कृत् वृत्तिः
योऽयं पुरिं शयनात्पूर्णः सुखदुःखानां वा पुरुषो जन्तुर्मनुष्यो वा, प्राधान्याच्च पुरुषस्योपादानम्, उपलक्षणं चैतत्, सर्वोऽपि चतुर्गत्यापन्नः प्राणी गृह्यते दिशोऽनुदिशो वाऽनुसञ्चरति सः 'अपरिज्ञातकर्मा' अपरिज्ञातं कर्मानेनेत्यपरिज्ञातकर्म्मा, खलुरवधारणे, अपरिज्ञातकर्मैव दिगादौ भ्राम्यति नेतर इति, उपलक्षणं चैतद्, अपरिज्ञातात्मापरिज्ञातक्रियश्चेति यश्चापरिज्ञातकर्मा स सर्वा दिशः सर्वाश्चानुदिशः 'साहेति' स्वयंकृतेन कर्मणा सहानुसञ्चरति सर्वग्रहणं सर्वासां प्रज्ञापकदिशां भावदिशां चोपसङ्ग्रहार्थम् ॥ ८ ॥ स यदाप्नोति तद्दर्शयति
अगरुवाओ जोणीओ संधेइ, विरूवरूवे फासे पडिसंवेदेइ ( सू० ९)
अनेकं संकटविकटादिकं रूपं यासां तास्तथा यौति मिश्रीभवत्यौदारिकादिशरीरवर्गणापुद्गलैरसुमान् यासु ता योनयः - प्राणिनामुत्पत्तिस्थानानि, अनेकरूपत्वं चासां संवृतविवृतोभयशीतोष्णोभयरूपतया, यदिवा चतुरशीतिलक्षभेदेन, ते चामी चतुरशीतिर्लक्षा:- पुंढवीजलजलणमारुय एक्केके सत्त सत्त लक्खाओ । वण पत्तेय अनंते दस चोदस जोणिलक्खाओ ॥ १ ॥ विगलिंदिए दो दो चउरो चउरो य णारयसुरेसुं । तिरिए हुंति चउरो चोदस लक्खा य
१ पृथ्वी जलज्वलनमारुतेषु एकैकस्मिन् सप्त सप्त दक्षाः प्रत्येकपने अनन्ते दश चतुर्दश योनिलक्षाः ॥ १ ॥ विकलेन्द्रियेषु द्वे द्वे तसतश्च नारकसुरेषु तिरधि भवन्ति चतलचतुर्दश लक्षा मनुष्येष्षु ॥ २ ॥
Etication matinal
For Pantry Use Only
कर्मबंध परिज्ञा, 'अपरिज्ञातकर्मा' स्वरूपं, ८४ लक्ष जीव-योनि स्वरूपं #
~51~#