________________
आगम
(०१)
"आचार" - अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [६], उद्देशक [9], मूलं [१९४],नियुक्ति: [२५२] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
धुवा.
प्रत
श्रीआचा- राङ्गवृत्तिः
(शी०) ॥२५६॥
उद्देशकः५
सूत्रांक [१९४]
दीप अनुक्रम २०७]]
कण्ठ्यं । स पुनः केषु निमित्तभूतेषु कीर्तयेदित्याह-स' आगमवित् स्वसमयपरसमयज्ञः 'उस्थितेषु वा' भावोत्थानेन । यतिघु, वाशब्दः उत्तरापेक्षया पक्षान्तरद्योतकः, पार्श्वनाथशिष्येषु चतुर्यामोत्थितेष्वेव वर्द्धमानतीर्थाचार्यादिः पञ्चयाम || धर्म प्रवेदयेदिति, स्वशिष्येषु वा सदोस्थितेप्वज्ञातज्ञापनाय धर्म प्रवेदयेदिति, 'अनुत्थितेषु वा श्रावकादिषु 'शुश्रूषमाणेषु' धर्म श्रोतुमिच्छत्सु गुर्वादेः पर्युपास्ति कुर्वत्सु वा संसारोत्तारणाय धर्म प्रवेदयेत् । किम्भूतं प्रवेदयेदित्याह-शमनं शान्तिः, अहिंसेत्यर्थः, तामाचक्षीत, तथा विरतिम्, अनेन च मृपावादादिशेषत्रतसङ्ग्रहा, तथा 'उपशम' क्रोधजयाद्, अनेन चोत्तरगुणसङ्ग्रहः, तथा निवृतिः निर्वाणं मूलगुणोत्तरगुणयोरैहिकामुष्मिकफलभूतमाचक्षीत, तथा 'शौच सर्वोपाधिशुचित्वं निर्वाच्यव्रतधारणं, तथा आर्जवं मायावक्रतापरित्यागात्, तथा मार्दवं मानस्तब्धतापरित्यागात्,
तथा लाघवं सवाह्याभ्यन्तरग्रन्थपरित्यागात् , कथमाचक्षीतेति दर्शयति-'अनतिपत्य' यथावस्थितं वस्त्वागमाभिहितं ४ तथाऽनतिक्रम्येत्यर्थः, केषां कथयति? –'सर्वेषां प्राणिनां दशविधाः प्राणा विद्यन्ते येषां ते प्राणिनस्तेषां सामान्यतः
संज्ञिपश्चेन्द्रियाणां, तथा 'सर्वेषां भूतानां मुक्तिगमनयोग्येन भव्यत्वेन भूतानां-व्यवस्थितानां, तथा 'सर्वेषां जीवानां | संयमजीवितेन जीवतां जिजीविषूणां च, तथा 'सर्वेषां सत्त्वानां' तिर्यङ्नरामराणां संसारे क्लिश्यमानतया करुणास्पदानामेकार्थिकानि वैतानि प्राणादीनि वचनानि इत्यतस्तेषां क्षान्त्यादिकं दशविधं धर्म यथायोगं प्रागुपन्यस्तं शान्त्यादिपदाभिहितम् 'अनुविचिन्त्य' स्वपरोपकाराय भिक्षणशीलो भिक्षुर्धर्मकथालब्धिमान् 'आचक्षीत' प्रतिपादयेदिति । यथा च धर्म कधयेत्तथाऽऽह
॥२५६॥
wwanditaram
~516~23