________________
आगम
(०१)
"आचार" - अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [६], उद्देशक [9], मूलं [१९४],नियुक्ति: [२५२] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
*
*
प्रत
सूत्रांक
[१९४]
दीप अनुक्रम २०७]]
6555-2564545456-4%
अक्षोभ्योऽधिसहेत नरकादिदुःखभावनयाऽवन्ध्यकम्मोदयापादितं पुनरपि मयैवैतत्सोढव्यमित्याकलय्य सम्यक् तितिव तेति । कीदृक्षोऽधिसहेतेत्यत आह, यदिवा स एवम्भूतो न केवलमात्मनखाता सदुपदेशदानतः परेषामपीति ||
दर्शयितुमाह-'ओजः' एको रागादिविरहात् सम्यग् इतं-गतं दर्शनमस्येति समितदर्शनः, सम्यग्दृष्टिरित्यर्थः, यदिवा 'शभितम्' उपशमं नीतं 'दर्शन' दृष्टिानमस्येति शमितदर्शनः, उपशान्ताध्यवसाय इत्यर्थः, अथवा समतामितंगतं दर्शनं-दृष्टिरस्येति समितदर्शनः, समदृष्टिरित्यर्थः, एवम्भूतः स्पर्शानधिसहेत, यदिवा धर्ममाचक्षीतेत्युत्तरक्रियया 8 सह सम्बन्धः, किमभिसन्धाय धर्ममाचक्षीतेति दर्शयति–'दयां' कृपां 'लोकस्य जन्तुलोकस्योपरि द्रव्यतो ज्ञात्वा
क्षेत्रतः प्राचीनं प्रतीचीनं दक्षीणमुदीचीनमपरानपि दिग्विभागानभिसमीक्ष्य सर्वत्र दयां कुर्वन् धर्ममाचक्षीत, कादालतो यावजीवं, भावतोऽरक्तोऽद्विष्टः, कथमाचक्षीत?-तद्यथा-सर्वे जन्तवो दुःखद्विषः सुखलिप्सवः आरमोपमया 8
सदा द्रष्टव्या इति, उक्तं च+“न तत्परस्य संदध्यात्, प्रतिकूलं यदात्मनः । एष सङ्क्राहिको धर्मः, कामादन्यः प्रवर्तते ॥१॥") इत्यादि, तथा धर्ममाचक्षाणो 'विभजेत् द्रव्यक्षेत्रकालभावभेदैराक्षेपण्यादिकथाविशेषैर्वा प्राणा-II तिपातमृपावादादत्तादानमैथुनपरिग्रहरात्रीभोजनविरतिविशेषैर्वा धर्म विभजेत्, यदिवा कोऽयं पुरुषः के नतो देवताविशेषमभिगृहीतोऽनभिगृहीतो वा? एवं विभजेत् , तथा कीर्तयेद्रतानुष्ठानफलं, कोऽसौ कीतयेद्?-वेदविद्, आ-| गमविदिति । नागार्जुनीयास्तु पठन्ति-"जे खलु समणे बहुस्सुए बज्झागमे आहरणहेउकुसले धम्मकहालद्धिसम्पन्ने | खेत्तं कालं पुरिसं समासज्ज केऽयं पुरिसे के वा दरिसणमभिसम्पन्नो? एवंगुणजाइए पभू धम्मस्स आघवित्तए" इति,४॥
~515~#