________________
आगम
(०१)
“आचार" - अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [६], उद्देशक [१], मूलं [१७७],नियुक्ति: [२५२] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत
सूत्रांक
[१७]
दीप अनुक्रम [१९०]]
जन्तवः पर्याप्तकापर्याप्तकभेदेन व्यवस्थिताः, तथा उदके चरन्तीत्युदकचराः-पूतरकच्छेदनकलोडणकवसा मत्स्यकच्छपादयः, तथा स्थलजा अपि केचन जलाश्रिता महोरगादयः पक्षिणश्च केचन तद्गतवृत्तयो द्रष्टव्याः, अपरे तु आकाशगामिनः पक्षिणः, इत्येवं सर्वेऽपि 'प्राणाः' प्राणिनोऽपरान् प्राणिनः आहाराद्यर्थ मत्सरादिना वा 'क्लेशयन्ति' उपतापयन्ति । यद्येवं ततः किमित्यत आह-'पश्य' अवधारय 'लोके' चतुर्दशरज्वात्मके, कर्मविपाकात्सकाशात् 'महद्भय'। नानागतिदुःखक्लेशविपाकात्मकमिति ॥ किमिति कर्मविपाकान्महद्रयमित्याह
बहुदुक्खा हु जन्तवो, सत्ता कामेसु माणवा, अबलेण वहं गच्छन्ति सरीरेणं पभंगुरेण अढे से बहुदुक्खे इइ बाले पकुव्वइ एए रोगा बहू नच्चा आउरा परियावए
नालं पास, अलं तवेपहि, एयं पास मुणी! महब्भयं नाइवाइज कंचणं (सू० १७८) बहूनि दुःखानि कर्मविपाकापादितानि येषां जन्तूनां ते तथा, हुर्यस्मादेवं तस्मात्तत्राप्रमादवता भाव्यं । किमित्येवं भूयो भूयोऽपदिश्यत इत्यत आह-यस्मादनादिभवाभ्यासेनागणितोत्तरपरिणामाः 'सक्ताः' गृद्धाः 'कामेषु' इच्छामदनरूपेषु 'मानवाः' पुरुषा इत्यतो न पुनरुक्तदोषानुषङ्गः । कामासक्ताश्च यदवामुवन्ति तदाह-बलरहितेन निःसारेण तुषमुष्टिकल्पेनौदारिकेण शरीरेण 'प्रभङ्करेण' स्वत एव भङ्गशीलेन तत्सुखाधानाय कम्मोपचित्याऽनेको वधं गच्छन्ति, कः पुनरसी विपाककटुकेषु कामेषु यो रतिं विदध्यादित्याह-मोहोदयादातः अगणितकार्याकायविवेकः सोऽसुमान्बहु
~479~#