________________
आगम (०१)
“आचार" - अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [१], उद्देशक [१], मूलं [५], नियुक्ति: [६६] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत
है
दीप
अनुक्रम
सञ्जातं, उक्तं च-'किं थे तैयं पम्हुई जं च तया भो! जयंतपवरंमि । वुच्छा समयनिबद्धं देवा! तं संभरह जाति ॥१॥ इति गाथात्रयतात्पर्यार्थः ॥४॥
साम्प्रतं प्रकृतमनुम्रियते-यो हि सोऽहमित्यनेनाहङ्कारज्ञानेनात्मोल्लेखेन पूर्वादेर्दिश आगतमात्मानमविच्छिन्नसंततिपतितं द्रव्यार्थतया नित्यं पर्यायार्थतया खनित्यं जानाति स परमार्थतः आत्मवादीति सूत्रकृद्दर्शयति
से आयावादी लोयावादी कम्मावादी किरियावादी (सू०५) 'स' इति यो भ्रान्तः पूर्वं नारकतिर्यग्नरामराद्यासु भावदिक्षु पूर्वाद्यासु च प्रज्ञापकदिक्षु अक्षणिकामूर्तादिलक्षणोपेतमात्मानमवैति, स इत्थंभूतः 'आत्मवादी'ति आत्मानं वदितुं शीलमस्येति, यः पुनरेवंभूतमात्मानं नाभ्युपगच्छति सोऽनात्मवादी नास्तिक इत्यर्थः । योऽपि सर्वव्यापिनं नित्यं क्षणिकं वाऽऽत्मानमभ्युपैति सोऽप्यनात्मवाद्येव, यतः सर्वव्यापिनो निष्क्रियत्वाद्भवान्तरसंक्रान्तिन स्यात्, सर्वथा नित्यत्वेऽपि 'अप्रच्युतानुसन्नस्विरकस्वभावं नित्य'मितिकृत्वा मरणाभावेन भवान्तरसंक्रान्तिरेव न स्यात् , सर्वथा क्षणिकत्वेऽपि निर्मूलविनाशात्सोऽहमित्यनेन पूर्वोत्तरानुसन्धानं न स्यात् । य एव चात्मवादी स एव परमार्थतो लोकबादी, यतो लोकयतीति लोका-प्राणिगणस्तै वदितुं शीलमस्येति, अनेन चात्माद्वैतवादिनिरासेनात्मबहुत्वमुक्तं, यदिवा 'लोकापाती ति लोकः-चतुर्दशरज्यात्मकः प्राणिगणो वा, तत्रापतितुं
११.प्र. २ किमय तद्विस्मृतं यच्च तदा भो जयन्तप्रवरे । उषिताः नित्रसमयं देवास्तां स्मरत जातिम् ॥ १॥ ३०नं बेसि.
[५]
wwwandltimaryam
| आत्मवादिः अनात्मवादिश्च-स्वरूपं, आत्मवादेः लोकवादित्वं
~47~#