________________
आगम
(०१)
प्रत
सूत्रांक [ १७२ ]
गाथा
१...३
दीप
अनुक्रम
[१८६...
१९०]
“आचार” - अंगसूत्र - १ ( मूलं + निर्युक्तिः + वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [ ६ ], उद्देशक [१], मूलं [१७२],निर्युक्तिः [२५२] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र [०१], अंग सूत्र [०१] “आचार” मूलं एवं शिलांकाचार्य कृत् वृत्तिः
प्रबलमोहोदयावृतान् संयमेऽवसीदतः पश्यत यूयं किम्भूतानित्याह--नात्मने हिता प्रज्ञा येषां ते अनात्मप्रज्ञास्ता निति, कुतः पुनः संयमानुष्ठानेऽवसीदन्ति इत्यारेकायां सोऽहं ब्रवीमि । अत्र दृष्टान्तद्वारेण सोपपत्ति- किं कारणमित्याहसेशब्दस्तच्छच्दार्थे, अपिशब्दश्चार्थे, स च वाक्योपन्यासार्थः, तद्यथा च कूम्मों महाहूदे विनिविष्टं चित्तं यस्यासौ विनिविष्टचित्तो-गामुपगतः पलाशैः- पत्रैः प्रच्छन्नः पलाशप्रच्छन्नः, सूत्रे तु प्राकृतत्वाद्व्यत्ययः, 'उम्मगं'ति विवरं उन्मज्यतेऽनेनेति वोन्मज्यम्, ऊर्द्ध वा मार्गमुन्मार्ग, सर्वथा अरन्धमित्यर्थः, तदसौ न लभतः इत्यक्षरार्थः । भावार्थस्त्वयम् - कश्चिद् हदो योजनशतसहस्रविस्तीर्णः प्रवलशेवालघन कठिनवितानाच्छादितो नानारूपकरिमकरमत्स्य कच्छपादिजलचराश्रयः, तन्मध्ये चैकं विस्रसापरिणामापादितं कच्छपग्रीवामात्रप्रमाणं विवरमभूत्, तत्र चैकेन कूम्र्मेण निजयूथात् प्रनष्टेन वियोगाकुलतयेतस्ततश्च शिरोधरां प्रक्षिपता कुतश्चित्तथाविधभवितव्यतानियोगेन तद्रन्धे ग्रीवानिर्गमनमाप्तं, तत्र चासौ शरच्चन्द्रचन्द्रिकया क्षीरोदसलिलप्रवाहकल्पयोपशोभितं विकचकुमुदनिकरकृतोपचारमिव तारकाकीर्ण नभस्तलमीक्षाञ्चक्रे, दृष्ट्वा चातीव मुमुदे आसीश्चास्य मनसि यदि तानि मद्रयाण्येतत्स्वर्गदेश्यमदृष्टपूर्व मनोरथानामप्यविषयभूतं पश्यन्ति ततः शोभनमापद्यत इत्येतदवधार्य तूर्णमन्वेषणाय वन्धूनामितश्चेतश्च वभ्राम, अवाप्य च निजान् पुनरपि तद्विवरान्वेषणार्थं सर्वतः पर्यटति न च तद्विवरं विस्तीर्णतया हृदस्य प्रचुरतया यादसामीक्षते, तत्रैव च विनाशमुपयात इति । (अस्यायमर्थोपनयः - संसारहदे जीवकूर्मः कर्मशेवालविवरतो मनुष्यार्यक्षेत्रसुकुलोत्पत्तिसम्यक्त्वावसा| ननभस्तलमासाद्य मोहोदयात् ज्ञात्यर्थं विषयोपभोगाय वा सदनुष्ठानविकलो न सफलतां नयति, तत्यागे कुतः पुनः
Jan Estication Untamal
For Party Use Onl
~471~#