________________
आगम
(०१)
प्रत
सूत्रांक
[१७२]
गाथा
8...3
दीप
अनुक्रम
[१८६...
१९०]
श्रीआचा
राङ्गवृत्तिः
(शी ० )
॥ २३३ ॥
“आचार” - अंगसूत्र - १ ( मूलं + निर्युक्तिः + वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [ ६ ], उद्देशक [१], मूलं [१७२],निर्युक्ति: [२५२] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र - [०१], अंग सूत्र [०१] “आचार” मूलं एवं शिलांकाचार्य कृत् वृत्तिः
दासेन 'प्रत्युपेक्षिताः' प्रति उप-सामीप्येन ईक्षिता: ज्ञाता भवन्ति स धर्म्ममाचष्टे नापर इति । इदमेवाह - 'आख्याति' कथयति 'स' तीर्थकृत्सामान्यकेवली अपरो वाऽतिशयज्ञानी श्रुतकेवली वा किमाख्याति ! – 'ज्ञानं' ज्ञायन्ते परिच्छि X ग्रन्ते जीवादयः पदार्थाः येन तज्ज्ञानं-मत्यादि पञ्चधा, किम्भूतं ज्ञानमाख्याति ? - ' अनीदृशं' नान्यत्रेदृशमस्तीत्यनीदर्श, यदिवा सकलसंशयापनयनेन धर्म्ममाचक्षाण एव स आत्मनो ज्ञानमनन्यसदृशमाख्याति । केषां पुनः स धर्ममाचष्ट इत्यत आह-'स' तीर्थकुङ्गणधरादिः 'कीर्त्तयति' यथावस्थितान् भावान् प्रतिपादयति 'तेषां' धर्मचरणाय सम्य गुत्थितानां, यदिवा उत्थिता द्रव्यतो भावतश्च तत्र द्रव्यतः शरीरेण भावतो ज्ञानादिभिः, तत्र स्त्रियः समवसरणस्था उभ यथाऽभ्युत्थिताः शृण्वन्ति, पुरुषास्तु द्रव्यतो भाज्याः, भावोत्थितानां तु धर्ममावेदयति उत्तिष्ठासूनां च देवानां तिरश्चांच, येsपि कौतुकादिना शृण्वन्ति तेभ्योऽप्याचष्टे, भावसमुत्थितान् विशिशेषयिषुराह - निक्षिप्ताः संयमिताः मनोवाक्कायरूपाः प्राण्युपमर्दकारित्वाद्दण्डा इव दण्डा यैस्ते तथा तेषां निक्षिप्तदण्डानां तथा 'समाहिताणं' सम्यगाहिताः- तपःसंयम उद्युक्ताः समाहिता अनम्यमनस्कास्तेषां तथा प्रकर्षेण ज्ञायतेऽनेनेति प्रज्ञानं तद्वतां सश्रुतिकानाम् 'इह' अस्मि न्मनुष्यलोके 'मुक्तिमार्ग' ज्ञानदर्शनचारित्रात्मकं कीर्त्तयतीति सम्बन्धः । तस्य च तीर्थकृतः साक्षाद्धर्ममावेदयतः केचन लघुकम्र्माणस्तथैव प्रतिपद्य धर्मचरणायोद्यच्छन्त्यपरे त्वन्यथेत्येतत्प्रतिपादयितुमाह-अपिशब्दश्चार्थे, चशब्दश्च वाक्योपन्यासाथै, एवं च तीर्थकृताऽऽवेदिते सत्येके - लब्धकर्मविवरा विविधं संयमसङ्ग्रामशिरसि पराक्रमन्ते, परान् वा इन्द्रियकधर्मरिपून् आक्रमन्ते पराक्रमन्त इति । एतद्विपर्ययमाह - साक्षात्तीर्थकरे सकतसंशयच्छेत्तरि धर्ममावेदयति सत्येकान्
Etication Intentional
For Party Use Onl
~470 ~#
धुता द उद्देशका
।। २३३ ॥