________________
आगम
(०१)
प्रत
सूत्रांक
[१६६ ]
दीप
अनुक्रम [१७९]
“आचार” - अंगसूत्र - १ (मूलं + निर्युक्तिः + वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [ ५ ], उद्देशक [६], मूलं [१६६], निर्युक्ति: [२४९] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०१], अंग सूत्र [०१] “आचार" मूलं एवं शिलांकाचार्य कृत् वृत्तिः
अणाणाए एगे सोबट्टाणा आणाए एंगे निरुवट्टाणा, एयं ते मा होउ, एयं कुसलस्स दंसणं, तहिट्टीए तम्मुत्तीए तप्पुरक्कारे तस्सन्नी तन्निवेसणे ( सू० १६६ )
इह तीर्थकरगणधरादिनोपदेशगोचरीभूतो विनेयोऽभिधीयते, यदिवा सर्वभावसम्भवित्वाद्भावस्य सामान्यतोऽभिधानम्, अनाज्ञा-अनुपदेशः स्वमनीषिकाचरितोऽनाचारस्तयाऽनाज्ञया तस्यां वा 'एके' इन्द्रियवशगा दुर्गतिं जिगमिषवः स्वाभिमानग्रहग्रस्ताः सह उपस्थानेन-धर्म्मचरणाभासोद्यमेन वर्त्तन्त इति सोपस्थानाः, किल वयमपि प्रत्रजिताः सदसद्धर्मविशेषविवेकविकलाः सावद्यारम्भतया प्रवर्त्तन्ते, एके तु न कुमार्गवासितान्तःकरणाः, किन्तु आलस्यावर्णस्तम्भाद्युपबृंहितबुद्धयः, 'आज्ञायां' तीर्थकरोपदेशप्रणीते सदाचारे निर्गतमुपस्थानम् - उद्यमो येषां ते निरुपस्थाना:- सर्वज्ञमणीतसदाचारानुष्ठानविकलाः । एतत्कुमार्गानुष्ठानं सन्मार्गावसीदनं च द्वयमपि 'ते' तब गुरुविनेयोपगतस्य दुर्गतिहेतुत्वान्मा भूदिति । सुधर्म्मस्वामी स्वमनीषिकापरिहारार्थमाह-- 'एतद्' यत्पूर्वोक्तं यदिवा अनाज्ञायां निरुपमस्थानत्वमाज्ञायां च सोपमस्थानत्वमित्येत् 'कुशलस्य' तीर्थकृतो दर्शनमभिप्रायः, यदिवैतद्वक्ष्यमाणं कुशलस्य दर्शनमित्याह- कुमार्ग परित्यज्य सदाऽऽचार्यान्तेवासिना एवंभूतेन भाव्यं तस्य - आचार्यस्य दृष्टिस्तदृष्टिस्तया वर्त्तितव्यं, सा वा तीर्थकरप्रणीतागमदृष्टिस्तदृष्टिस्तयेति, तथा तस्य- आचार्यस्य तीर्थकृतो वा मुक्तिस्तन्मुक्तिस्तया, तथा तमाचार्य सर्वकार्येषु पुरः करोतीति तत्पुरस्कारः- आचार्यानुमत्या क्रियानुष्ठायीत्यर्थः, तथा तत्संज्ञी - तज्ज्ञानोपयुक्तः, तथा तन्निवेशन:- सदा गुरुकुलनिवासी ॥ स एवंभूतः किंगुणः स्यादित्याह
Etication mainl
For Pantry Use O
~ 457 ~#
www.india.org