________________
आगम
(०१)
प्रत
सूत्रांक
[१३४]
दीप
अनुक्रम [१४७]
श्रीआचा
राङ्गवृत्तिः (शी०)
॥ १८९ ॥
“आचार” - अंगसूत्र - १ ( मूलं + निर्युक्तिः + वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [ ४ ], उद्देशक [३], मूलं [१३४],निर्युक्तिः [२३३] मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र [०१], अंग सूत्र [०१] “आचार" मूलं एवं शिलांकाचार्य कृत् वृत्तिः
माहुः १ - समत्वदर्शिनः सम्यक्त्वदर्शिनः समस्तदर्शिनो वा, यदुद्देशकादेरारभ्योक्तं तदेवमूचुरित्यर्थः कस्मात ऊचुरित्याह –'ते सव्वे' इत्यादि, यस्मात्ते सर्वेऽपि सर्वविदः 'प्रावादिकाः' प्रकर्षेण मर्यादया वदितुं शीलं येषां ते प्रावादिनः, त एव प्रावादिका:-यथावस्थितार्थस्य प्रतिपादनाय वावदूका', 'दुःखस्य' शारीरमानसलक्षणस्य तदुपादानस्य वा कर्म्मणः 'कुशखा' निपुणास्तदपनोदोपायवेदिनः सन्तः से सर्वेऽपि ज्ञपरिज्ञया परिज्ञाय हेयार्थस्य प्रत्याख्यान परिज्ञामुदाहरन्ति *'इतिः' उपप्रदर्शने, इत्येवं पूर्वोक्तनीत्या फर्म्मबन्धोदय सत्कर्म्मताविधानतः परिज्ञाय 'सर्वशः' सब्बैः प्रकारैः कुशलाः प्रत्या४ ख्यानपरिज्ञामुदाहरन्ति यदिवा मूलोत्तरप्रकृतिप्रकारैः सर्वैः परिज्ञायेति मूलप्रकारा अष्टौ उत्तरप्रकृतिप्रकारा अष्टपशाशदुत्तरं शतम्, अथवा प्रकृतिस्थित्यनुभावप्रदेशप्रकारैः, यदिवोदयप्रकारैर्बन्धसत्कर्म्मता कार्यभूतैरागामिबन्धसरक मताकारणैश्च कर्म्म परिज्ञायेति, ते चामी उदयप्रकाराः, तद्यथा मूलप्रकृतीनां त्रीण्युदयस्थानानि, अष्टविधं सप्तविधं चतुर्विधमिति, तत्राष्टापि कर्म्मप्रकृती यौगपद्येन वेदयतोऽष्टविधं तथ कालतोऽनादिकमपर्यवसितमभव्यानां भव्यानां त्वनादिसपर्यवसितं सादिसपर्यवसितं चेति, मोहनीयोपशमे क्षये वा सप्तविधं, घातिक्षये चतुर्विधमिति । साम्प्रतमुत्तरप्रकृतीनामुदयस्थानान्युच्यन्ते तत्र ज्ञानावरणीयान्तराययोः पश्चप्रकारं एकमुदयस्थानं, दर्शनावरणीयस्य द्वे, दर्शनचतुष्कस्योदयाच्चत्वारि अन्यतरनिद्रया सह पञ्च, वेदनीयस्य सामान्येनैकमुदयस्थानं सातमसातं वेति, विरोधाद्यौगपद्यो दयाभाव:, मोहनीयस्य सामान्येन नवोदयस्थानानि तद्यथा दश नव अष्टौ सप्त पटू पञ्च चत्वारि द्वे एकं चेति, तत्र दश मिथ्यात्वं १ अनन्तानुबन्धी क्रोधोऽप्रत्याख्यानः प्रत्याख्यानावरणः सवलनश्चेत्येतत्क्रोधचतुष्टयम् ५ एवं मानादि
Jain Estication intumatl
For Pantry at Use Only
~382~#
सम्य० ४
उद्देशका २
॥ १८९ ॥