________________
आगम
(०१)
“आचार" - अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [४], उद्देशक [३], मूलं [१३४],नियुक्ति: [२३३] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत
सूत्रांक
[१३४]]
दीप
Fयादित्याह-'से सवलोए' इत्यादि, यः पापण्डिलोकमनार्यवचनमवगम्य तदुपेक्षां विधत्ते स सर्वस्मिलोके-मनुष्यलोके ये
केचिद्विद्वांसस्तेभ्योऽग्रणीविंद्वत्तम इति स्यात्, लोके केचन विद्वांसः सन्ति? येभ्योऽधिकः स्यादित्यत आह 'अणुवी इत्यादि, ये केचन लोके 'निक्षिप्तदण्डाः' निश्चयेन क्षिप्तो निक्षिप्तः-परित्यक्तः कायमनोवाङ्मयः प्राण्युपधातकारी दण्डो यैस्ते विद्वांसो भवन्त्येव एतदनुविचिन्त्य-पर्यालोच्य पश्य-अवगच्छ । के चोपरतदण्डा इत्यत आह-'जे केई' इत्यादि, ये
केचनावगतधर्माणः सत्त्वाः-प्राणिनः 'पलित'मिति कर्म तत्त्वजन्ति, ये 'चोपरतदण्डा भूत्वाऽष्टप्रकारं कर्म नन्ति ते IS विद्वांस इत्येतदनविचिन्त्य-अक्षिनिमीलनेन पर्यालोच्य 'पश्य' विवेकिन्या मत्याऽवधारय । के पुनरशेषकर्मक्षयं कुर्वन्ति |
इत्यत आह-'नरे' इत्यादि, नरा:-मनुष्यास्त एवाशेषकर्मक्षयायालं नान्ये, तेऽपि न सर्वे अपि तु मृतार्चा-मृतेव मृता संस्काराभावाद; शरीरं येषां ते तथा, निष्प्रतिकर्मशरीरा इत्यर्थः, यदिवा अर्था-तेजः, स च क्रोधः, स च कषायोपलक्षणार्थः, ततश्चायमों-मृता-विनष्टा अर्चा कपायरूपा येषां ते मृतार्चाः, अकपायिण इत्यर्थः, किं च धम्मै श्रुतचारित्राख्यं विदन्तीति धर्मविदः, इति हेतो, यत एव धर्मविदोऽत एव ऋजवः-कौटिल्यरहिताः । स्थादेतत्-किमालम्ब्यतद्विधेयमित्यत आह–'आरंभज' मित्यादि, सावद्यक्रियानुष्ठानमारम्भस्तस्माज्जातमारम्भर्ज, किं तद्-दुःखमिदमिति सकलपाणिप्रत्यक्षं, तथाहि-कृषिसेवावाणिज्याद्यारम्भप्रवृत्तो यच्छारीरभानसं दुःखमनुभवति तद्वाचामगोचरमिस्थतः प्रत्यक्षाभिधायिनेदमोक्तम्, 'इतिः' उपप्रदर्शने, इत्येतदनुभवसिद्धं दुःखं ज्ञात्वा मृतार्चा धर्मविद ऋजवश्च भव-| न्तीति । एतच समस्तवेदिनो भाषन्त इति दर्शयति-'एवमित्यादि, 'एवं' पूर्वोक्तप्रकारेण 'आहुः उक्तवन्तः, के एव
अनुक्रम [१४७]
~381~#